________________
६४
लाटीसंहितायां
ध्याता ध्यानं च ध्येयश्च ज्ञाता ज्ञानं च ज्ञेयसात् । चतुर्विधाराधनापि तुल्या क्रोधादिजिष्णुता ॥ १६६ ॥ किंवात्र बहुनोक्तेन तद्विशेषोऽवशिष्यते । विशेषाच्छेषनिःशेषो न्यायादस्त्यविशेषभाक् ॥ १६६ ॥ आचार्योऽनादितो रूढे योगादपि निरुच्यते ।-पञ्चाचारं परेभ्यः स आचारयति संयमी ॥ १६५ ॥ अपि छिन्ने व्रते साधोः पुनः सन्धानमिच्छतः । तत्समादेशदानेन प्रायश्चित्तं प्रयच्छति ॥ १६८ ॥ आदेशस्योपदेशेभ्यः स्याद्विशेषः स भेदभाक् । आदत्ते गुरुणा दत्तं नोपदेशेष्वयं विधिः ॥ ११० ॥ न निषिद्धस्तदादेशो गृहिणां व्रतधारिणाम् । दीक्षाचार्येणा दीक्षेवं दीयमानास्ति तत्क्रिया ॥ १७१ ॥ छेदोपस्थापनं चात्र क्रियतेऽन्येन तेन वा ॥ स निषिद्धो यथाम्नायादत्रतिनां मनागपि । हिंसकश्चोपदेशोपि नोपयुज्योत्र कारणात् ॥ १७१ ॥ मुनिव्रतधराणां वा गृहस्थव्रतधारिणाम् । आदेशश्चोपदेशो वा न कर्तव्यो बधाश्रितः ।। १७३ ॥ नचाशङ्कचं प्रसिद्धं यन्मुनिभिर्ब्रतधारिभिः । मूर्त्तिमच्छक्तिसर्वस्वं हस्तरेखेवदर्शितम् ॥ १७८॥ नूनं प्रोक्तोपदेशोपि न रागाय विरागिणाम् । रागिणामेव रागाय ततोऽवश्यं स वर्जितः ॥ १७४ ॥ न निषिद्धः स आदेशो नोपदेशो निषेधितः । नूनं सत्पात्रदानेषु पूजायामर्हतामपि ।। १७५ ॥ यद्वादेशोपदेशौस्तो तौ द्वौ निरवद्यकर्मणि ।
यत्र सावद्यलेशोपि तत्रादेशो न जातुचित् ॥ १७१ ॥
66
" ग " पुस्तकयोः " दीक्षैव ख
"1
१
यम्पक्तिः । ३ पक्षान्तरे ।
"
इति पाठ: । २ पंचाध्याम् ने