________________
६२
. लाटीसंहितायां
सम्यक्त्वं चैव सूक्ष्मत्वमव्यावाधगुणः स्वतः । अस्त्यगुरुलघुत्वं च सिद्धे चाष्टगुणाः स्मृताः ॥ १४१ ॥ इत्याद्यनन्तधर्मात्यः कर्माष्टकविवर्जितः । मुक्तोऽष्टादशभिर्दोषैर्देवः सेव्यो नचेतरः ॥ १४५॥ अर्थाद्गुरुः स एवास्ति श्रेयोमार्गोपदेशकः । भगवांस्तु यतः साक्षान्नेता मोक्षस्य वर्त्मनः ।। १४३ ॥ तेभ्योऽर्वागपि छमस्थरूपा तद्रूपधारिणः । गुरवःस्युर्गुरोर्व्यायान्यायोऽवस्थाविशेषभाक् ॥१४॥ अस्त्यवस्थाविशेषोऽत्र युक्तिस्वानुभवागमात् । शेषसंसारिजीवेभ्यस्तेषामेवातिशायनात् ॥ १४४५॥ भाविनैगमनयायत्तो भूष्णुस्तद्वानिवेष्यते । अवश्यं भावतो व्याप्तेः सद्भावात्सिद्धसाधनात् ।। १४९ ॥ अस्ति सद्दर्शनं तेषु मिथ्याकर्मोपशान्तितः। चारित्रं देशतः सम्यक् चारित्रावरणक्षते: ॥ १४३॥ ततः सिद्धं निसर्गाद्वै शुद्धत्वं हेतुदर्शनात् । मोहकर्मोदयाभावात् तत्कार्यस्याप्यसम्भवात् ॥ १४ ॥ तच्छुद्धत्वं सुविख्यातनिर्जराहेतुरंजसा । निदानं संवरस्यापि क्रमानिर्वाणभागपि ॥ १४८ ॥ यद्वा स्वयं तदेवार्थान्निर्जरादित्रयं यतः । शुद्धभावाविनाभावि द्रव्यनामापि तत्त्रयम् ॥ १५॥ निर्जरादिनिदानं यः शुद्धो भावश्चिदात्मकः । परमार्हः सएवास्ति तद्वानात्मा परं गुरुः ॥ १५ ॥ न्यायाद्गुरुत्वहेतुः स्यात्केवलं दोषसंक्षयः । निर्दोषो जगतः साक्षी नेता मार्गस्य नेतरः।। १५५ ॥ नालं छद्मस्थताप्येषा गुरुत्वक्षतये मुनेः। रागाद्यशुद्धभावानां हेतुर्मोहैककर्म तत् ॥ १५३॥ १' क ' पुस्तके " नान्योऽवस्थाविशेषभाकू " इति पाठः ।