________________
सम्यग्दर्शनवर्णनम् ।
एको देवः स सामान्याद् द्विधाऽवस्थाविशेषतः । संख्यधा नामसंदर्भाद्गुणेभ्यः स्यादनन्तधा ॥ १२ ॥ एको देवः स द्रव्यात्सिद्धेः शुद्धोपलब्धितः। अर्हन्निति च सिद्धश्च पर्यायार्थाद्विधामतः ॥ १२८या दिव्यौदारिकदंहस्थो धौतघातिचतुष्टयः ।। ज्ञानदृग्वीर्यसौख्याव्यः सोऽर्हन् धर्मोपदेशकः ॥ १३ ॥ मूर्त्तिमदेहनिर्मुक्तो लोको लोकाप्रसंस्थितः। मुक्ता ज्ञानाद्यष्टगुणोपेतो निष्कर्मा सिद्धसंज्ञकः ॥ १३९ ॥ अर्हन्निति जगत्पूज्यो जिनः कर्मारिशातनात् । महादेवोऽधिदेवत्वाच्छंकरोभिसुखावहात् ॥ १३ ॥ विष्णुर्ज्ञानेन सर्वार्थविस्तृतत्वात्कथंचन । . ब्रह्मा ब्रह्मज्ञरूपत्वाद्धरि. दुःखापनोदनात ॥ १३३ ॥ इत्याद्यनेकनामापि नानेकोस्ति स्वलक्षणात्। . यतोऽनन्तगुणात्मैकद्रव्यं स्यात्सिद्धसाधनात् ॥ १३ ॥ चतुर्विंशतिरित्यादियावदन्तमनन्तता। तद्बहुत्वं न दोषाय देवत्वैकविधत्वतः ॥ १३५॥ . . . प्रदीपानामनेकत्वं न प्रदीपत्वहानये । यतोऽत्रैकविधत्वं स्यान्नस्यान्नानाप्रकारता॥ १३६॥ . नचाशङ्कथं यथासंख्यं नामतोप्यस्त्वनेकधा। =न्यायादेकगुणं चैकं प्रत्येकं नाम चैककम् ॥ १३ ॥ नामतः सर्वतो मुख्य संख्या तस्यैव सम्भवात् । अधिकस्य ततो वाचं व्यवहारस्य दर्शनात् ॥ १३५ ।। वृद्धः प्रोक्तमतः सूत्रे तत्त्वं वार्गतिवर्ति यत् । . . द्वादशाङ्गाङ्गबाह्यं च श्रुतं स्थूलार्थगोचरम् ॥ १३९ ॥ कृत्स्नकर्मक्षयाज्ज्ञानं क्षायिकं दर्शनं पुनः। अत्यक्षं सुखमामोत्थं वीर्यं चेति चतुष्टयम् ॥ १४॥ १ दुःखविनाशनात् । २ वचनागोचरम् ।