SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां ) दृग्मोहस्यात्यये दृष्टिः साक्षाद्भूतार्थदर्शिनी । तस्यानिष्ठेस्त्यनिष्टार्थबुद्धिः कर्मफलात्मके ॥ ८८ ॥ नचासिद्धमनिष्टत्वं कर्मणस्तत्फलस्य च । सर्वतो दुःखहेतुत्वाद् युक्तिस्वानुभवागमात् ॥ ८९ ॥ अनिष्टार्थं फलत्वात्स्यादनिष्टार्थी व्रतक्रिया | दुष्टकार्यानुरूपस्य हेतोर्दुष्टापदेशवत् ॥ ९१ ॥ अथसिद्धं स्वतन्त्रत्वं क्रियायाः कर्मणः फलात् । ऋते कर्मोदयाद्धेतोस्तस्याश्चासम्भवो मतः ।। ९३ ॥ यावदक्षीणमोहस्य क्षीणमोहस्य चात्मनः । यावत्यस्ति क्रिया नाम तावत्यौदयिकी स्मृता ॥ ९३ ॥ पौरुषीन यथाकामं पुंसः कर्मोदितं प्रति । न परं पौरुषापेक्षो देवापेक्षां हि पौरुषः ।। ९४॥ सिद्धो निःकांक्षितो ज्ञानी कुर्वाणोप्युदितां क्रियाम् ॥ निष्कामतः कृतं कर्म न रागाय विरागिणाम् ।। ९५ । नाशङ्कयं चास्ति निःकांक्षः सामान्येोपि जनः क्वचित् । हेतोः कुतश्चिदन्यत्र दर्शनातिशयादपि ।। ९६ ।। यतो निःकांक्षिता नास्ति न्यायात्सद्दर्शनं विना । नानिच्छास्याक्ष सौख्ये तदत्यक्षमनिच्छतः ॥ ९६ ॥ तदत्यक्ष सुखं मोहान्मिथ्यादृष्टिः स नेष्यति । दृग्मोहस्य तथा पाकशक्तेः सद्भावतोऽनिशम् ॥ ९८ ॥ उक्त निःकांक्षितो भावो गुणो सद्दर्शनस्य वै । अस्तु का नः क्षतिः प्राक् चेत्परीक्षाक्षमता मता ॥ अथ निर्विचिकित्साख्यो गुणः संलक्ष्यते स यः । सद्दर्शनगुणस्योच्चैर्गुणो युक्तिवशादपि ॥ ९९ ॥ १० आत्मन्यात्मगुणोत्कर्ष बुद्धया स्वात्मप्रशंसनात् । परत्राप्यपकर्षेषु बुद्धिर्विचिकित्सा स्मृता ॥ १०१ ॥ ५८
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy