________________
सम्यग्दर्शनवर्णनम् ।
५७
आस्तामिष्टार्थसंयोगोऽमुत्रभोगाभिलाषतः । स्वार्थसाथैकसंसिद्धिर्न स्यान्नामैहिकापि सा ।। ७५ ॥ निस्सारं प्रस्फुरत्येष मिथ्याकमैकपाकतः । जन्तोरुन्मत्तवच्चापि वार्तेर्वातोत्तरङ्गवत् ॥ ७६ ॥ ननु कार्यमनुद्दिश्य न मन्दोपि प्रवर्तते । भोगाकांक्षां विना ज्ञानी तत्कथं व्रतमाचरेत् ॥ ७७ ॥ नासिद्धं बन्धमात्रत्वं क्रियायाः फलमद्वयम् । शुभमात्रं शुभायाः स्यादशुभायाश्चाशुभावहम् ॥ ७८ ॥ नचाशङ्कथं क्रियाप्येषा स्यादबन्धफला क्वचित् । . दर्शनातिशयाखेतोः सरागेपि विरागवत् ॥ ७९ ॥ ‘सरागे वीतरागे वा नूनमौदयिकी क्रिया ।
अस्ति बन्धफलावश्यं मोहस्यान्यतमोदयात् ॥ ८१॥ नच वाच्यं स्यात्सद्दृष्टिः कश्चित्प्रज्ञापराधतः । अपि बन्धफलां कुर्यात्तामबन्धफलां विदन् ॥ ८३ ॥ यतः प्रज्ञाविनाभूतमस्ति सम्यग्विशेषणम् ।। तस्याश्वाभावतो नूनं कुतस्त्या दिव्यता दृशः ।। ८२ ॥ नैवं यतः सुसिद्धं प्रागस्ति चानिच्छतः क्रिया। शुभायाश्चाशुभायाश्च को विशेषो विशेषभाक् ॥ ८४॥ नन्वनिष्टार्थसंयोगरूपा सानिच्छतः क्रिया । विशिष्टेष्टार्थसंयोगरूपा सानिच्छतः कथम् ॥ ८४ ।। तक्रिया व्रतरूपा स्यादर्थान्नानिच्छतः स्फुटम् । तस्याः स्वतंत्रसिद्धत्वात्सिद्धं कर्तृत्वमर्थसात् ॥ ८६॥ नैवं यतोऽस्त्यनिष्टार्थः सर्वः कर्मोदयात्मकः । तस्मान्नाकांक्षते ज्ञानी यावत्कर्म च तत्फलम् ॥ ८॥ यत्पुनः कश्चिदिष्टार्थोऽनिष्टार्थः कश्चिदर्थसात् । तत्सर्वं दृष्टिदोषत्वात्पीतशंखावलोकवत् ॥ ८॥