SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५६ लाटीसंहितायां mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm मृत्युः प्राणात्ययः प्राणाः कायवागिन्द्रियं मनः । निश्वासोच्छासमायुश्च दशैते वाक्यविस्तरात् ।। ६२ ॥ तद्भीतिर्जीवितं भूयान्मामून्मे मरणं क्वचित् । कदा लेभेन वा देवादित्याधिः स्वे तनुव्यये ॥ ६३ ॥ नूनं तद्धी: कुदृष्टीनां नित्यं तत्त्वमनिच्छताम् । अन्तस्तत्त्वैकवृत्तानां तद्भीतिर्ज्ञानिनां कुतः ॥ ६४ ॥ जीवस्य चेतना प्राणा नूनं स्वात्मोपजीविनी। नार्थान्मृत्युरतस्तद्धीः कुतः स्यादिति पश्यतः ॥ ६५ ॥ अकस्माज्जातमित्युच्चैराकस्मिकभयं स्मृतम् । तद्यथा विद्युदादीनां पातात्पातोऽसुधारिणाम् ६६ ।। भीति भूयाद्यथा सौस्थ्यं माभूद्दौस्थ्य कदापि मे । इत्येवं मानसी चिंतापर्याकुलितचेतसाम् ॥ ६७ ।। अर्थादाकस्मिकभ्रान्तिरस्ति मिथ्यात्वशालिनः । कुतो मोक्षोऽस्ति तद्भीतेर्निर्भीकैकपदच्युतेः ।। ६८ ।। निर्भीकैकपदो जीवः स्यादनन्तोप्यनादिमान् । नास्त्याकस्मिकं तत्र कुतस्तद्भीस्तमिच्छतः ।। ६९ ।। कांक्षा भोगाभिलाष: स्यात्कृते मुख्यक्रियासु वा । कर्मणि तत्फले स्वात्म्यमन्यदृष्टिप्रशंसनम् ।। ७० ॥ हृषीका रुचितेषूञ्चैरुद्वेगो विषयेषु यः । स स्याद्भोगाभिलाषस्य लिङ्गं स्वेष्टार्थरज्जनात् ॥ ७१ ॥ तद्यथा न रतिः पक्षे विपक्षे वारतिं विना । नारतिर्वा स्वपक्षेपि तद्विपक्षेरति विना ॥ ७२ ॥ शीतद्वेषी यथा कश्चिदुष्णस्पर्श समीहते । नेच्छेदनुष्णसंस्पर्शमुष्णस्पर्शाभिलाषुकः ।। ७३ ॥ यस्यास्ति कांक्षितो भावो नूनं मिथ्यादृगस्ति सः। यस्य नास्ति स सदृष्टिः युक्तिस्वानुभवागमात् ।। ७४ ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy