SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५४ लाटीसंहितायां सम्यग्दृष्टिः सदेकत्वं स्वं समासादयनियत् । व यावत्कर्मातिरिक्तत्वाच्छुद्धमभ्येति चिन्मयम् ॥ ३६ ॥ शरीरं सुखदुःखादि पुत्रपौत्रादिकं तथा । अनित्यं कर्मकार्यत्वादस्वरूपमवैति यः ॥ ३७॥ लोकोयं मे हि चिल्लोको नूनं नित्योस्ति सोर्थतः । नापरो लौकिको लोकस्ततो भीतिः कुतोस्ति मे ॥ ३८ ॥ आत्मसंचेतनादेवं ज्ञानी ज्ञानैकतानतः । इह लोकभयान्मुक्तो मुक्तस्तत्कर्मबन्धनात् ॥ ३९ ॥ परलोकः परत्रात्मा भाविजन्मान्तरांशभाक् । ततः कम्प इव त्रासो भीतिः परलोकतोस्ति सा ॥ ४०॥ भद्रं चेजन्म स्वर्लोके मामून्मे जन्म दुर्गतौ । इस्याद्याकुलितं चेतः साध्वसं पारलौकिकम् ॥ ४१ ॥ मिथ्यादृष्टेस्तदेवास्ति मिथ्याभावककारणात् । तद्विपक्षस्य सद्दृष्टेनास्ति तत्तत्र व्यत्ययात् ॥ ४२ ॥ वहिदृष्टिरनात्मज्ञो मिथ्यामात्रैकभूमिकः ।। स्वं समासादयत्यज्ञः कर्म कर्मफलात्मकम् ।। ४३ ॥ ततो नित्यं भयाक्रान्तो वर्तते भ्रान्तिमानिव । मनुते मृगतृष्णायामम्भोभारं जनः कुधीः । ४४ ॥ अन्तरात्मा तु निर्भीकः पदं निर्भयमाश्रितः । भीतिहेतोरिहावश्यं मिथ्याभ्रान्तरसम्भवात् ॥ ४५ ॥ मिथ्याभ्रान्तिदन्यत्र दर्शनं चान्यवस्तुनः । यथा रज्जौ तमोहेतोः साध्यासाद्रवत्यधीः ॥ ४६ ।। स्वसंवेदनप्रत्यक्षं ज्योतिर्यो वेत्त्यनन्यसात् । स विभेति कुतो न्यायादन्यथाभवनादपि ॥ ४७ ॥ वेदनागन्तुका बाधा मलानां कोपतस्तनौ । भीतिः प्रागेव कम्पोऽस्या मोहाद्वा परिदेवनम् ।। ४८ ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy