SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सम्यग्दर्शनवर्णनम् । तत्कथं नाम निर्भीकः सर्वतो दृष्टिवानपि । अप्यनिष्टार्थसंयोगादस्त्यध्यक्षं प्रमत्तवान् ।। २३ ।। सत्यं भीतोऽपि निर्भीकस्तत्स्वामित्वाद्यभावतः । रूपिद्रव्यं यथा चक्षुः पश्यन्नपि न पश्यति ॥ २४ ॥ सन्ति संसारिजीवानां कर्मांशाश्चोदयागताः । मुह्यन रज्यन् द्विषस्तत्र तत्फलेनोपयुज्यते ॥ २५ ॥ एतेन हेतुना ज्ञानी निःशङ्को न्यायदर्शनात् । देशतोऽप्यत्र मूर्छाया शङ्काहेतोरसम्भवात् ॥ २६ ॥ स्वात्मसंचेतनं तस्य कीदृगस्तीति चिन्त्यते । येन कर्मापि कुर्वाणो कर्मणा नोपयुज्यते ॥ २७ ॥ तत्र भीतिरिहामुत्रलोके वा वेदनाभयं । चतुर्थी भीतिरत्राणं स्यादगुप्तिस्तु पञ्चमी ।। २८ ।। भौतिः स्याद्वा तथा मृत्यु तिराकस्मिकी ततः। क्रमादुद्देशिताश्चेति सप्तैताः भीतयः स्मृताः ॥ २९ ॥ तत्रेह लोकतो भीतिः क्रन्दितं चात्रजन्मनि । इष्टार्थस्य व्ययो माभून्मा मेऽनिष्टार्थसङ्गमः ॥ ३० ॥ . . स्थास्यतीदं धनं नो वा दैवान्माभूद्दरिद्रता। इत्याद्याधिश्चिता दग्धुं ज्वलितेवाऽहगात्मनः ॥ ३१ ॥ अर्थादज्ञानिनो भीतिर्भीतिन ज्ञानिनः कचित् । यतोस्ति हेतुतः शेषाद्विशेषश्चानयोर्महान् ॥ ३२ ॥ अज्ञानी कर्म नोकर्म भावकर्मात्मकं च यत् । मनुतेऽहं सर्वमेवैतन्मोहादद्वैतवादवत् ॥ ३३ ।। विश्वाद्भिन्नोपि विश्वं स्वं कुर्वन्नात्मानमात्महा। भूत्वा विश्वमयो लोके भयं नोज्झति जातुचित् ॥ ३४ ॥ तात्पर्य सर्वतोऽनित्ये कर्मणां पाकसम्भवात् । .. नित्यं बुध्वा शरीरादौ प्रान्तो भीतिमुपैति सः ॥ ३५ ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy