________________
५२
लाटीसंहितायांनचाशङ्कयं परोक्षास्ते सदृष्टेर्गोचराः कुतः । तैः सह सन्निकर्षस्य साक्षिकस्याप्यसम्भवात् ॥ १० ॥ अस्ति तत्रापि सम्यक्त्वमाहात्म्यं महतां महत् । यदस्य जगतो ज्ञानमस्त्यास्तिक्यपुरस्सरम् ॥ ११ ॥ नासम्भवमिदं यस्मात्स्वभावोऽतर्कगोचरः । अतिशयोऽतिवागस्ति योगिनां योगिशक्तिवत् ॥ १२ ॥ अस्ति चात्मपरिच्छेदि ज्ञानं सम्यग्दृगात्मनः । स्वसंवेदनप्रत्यक्षं शुद्धं सिद्धास्पदोपमम् ॥ १३ ॥ यत्रानुभूयमानोऽपि सर्वैराबालमात्मनि ।। मिध्याकर्मविपाकाद्वै नानुभूतिः शरीरिणाम् ॥ १४ ॥ सम्यग्दृष्टेः कुदृष्टेश्च स्वादुभेदोस्ति वस्तुनि । न तत्र वास्तवो भेदो वस्तुसीनोऽनतिक्रमात् ।। १५ ।। अत्र तात्पर्यमेवैतत्तत्वैकत्वेपि यो भ्रमः । शङ्कायाः सोऽस्त्यपराधो सास्तिमिथ्योपजीविनी ।। १६ ।। ननु शङ्काकृतो दोषो यो मिथ्यानुभवो नृणाम् । सा शङ्कापि कुतो न्यायादस्ति मिथ्योपजीविनी ॥ १७ ॥ अत्रोत्तरं कुदृष्टियः स सप्तभिर्भयैर्युतः । नापि स्पृष्टः सुदृष्टियः सप्तभिः स भयैर्मनाक् ॥ १८ ॥ परत्रात्मानुभूतेर्वै विना भीतिः कुतस्तनी । भीतिः पर्यायमूढानां नात्मतत्त्वैकचेतसाम् ॥ १९ ॥ ततो भीत्यानुमेयोस्ति मिथ्या भावो जिनागमात् । सा च भीतिरवश्यं स्याद्धेतोः स्वानुभवक्षतेः ॥ २० ॥ अस्ति सिद्धं परायत्तो भीतः स्वानुभवच्युतः। स्वस्थस्य स्वाधिकारित्वान्नूनं भीतेरसम्भवात् ॥ २१ ॥ ननु सन्ति चतस्रोपि संज्ञास्तस्यास्य कस्यचित् । अर्वाक् तत्तस्थितिच्छेदस्थानादस्तित्वसम्भवात् ॥ २२ ॥ १ ऐन्द्रियकस्य ।