________________
सम्यग्दर्शनवर्णनम् ।
अथ चतुर्थः सर्गः ।
इदमिदं तव भो वनिजांपते
भवतु भावितभावसुदर्शनम् ।
विदितफामननाममहामते
रसिकधर्मकथासु यथार्थतः ॥ १ ॥
इत्याशीर्वादः ।
५१
ननु सुदर्शनस्यैतल्लक्षणं स्यादशेषतः । किमथास्त्यपरं किञ्चल्लक्षणं तद्वदाद्य नः ॥ १ ॥ सम्यग्दर्शनमष्टाङ्गमस्ति सिद्धं जगत्त्रये । लक्षणं च गुणश्चाङ्गं शब्दाचैकार्थबाचकाः ॥ २ ॥ निःशङ्कितं तथा नामा निःकांक्षितमतः परम् । विचिकित्सावर्जं चापि यथादृष्टेरमूढता ॥ ३ ॥ उपबृंहणनामाथ सुस्थितीकरणं तथा । वात्सल्यं च यथाम्नायाद्गुणोप्यस्ति प्रभावना ॥ ४ ॥ शङ्का भीः साध्वसं भीतिर्भयमेकाभिधा अमी । तस्या निष्क्रान्तितो जातो भावो निःशङ्कितोर्थतः ॥ ५ ॥ अर्थवशादत्र सूत्रार्थे शङ्का न स्यान्मनीषिणाम् । सूक्ष्मान्तरितदूरार्थाः सन्ति चास्तिक्यगोचराः ॥ ६ ॥ तत्र धर्मादयः सूक्ष्माः सूक्ष्माः कालाणवोऽणवः । अस्ति सूक्ष्मत्वमेतेषां लिङ्गस्याक्षैरदर्शनात् ॥ ७ ॥ अन्तरिता यथा द्वीपसरिन्नाथनगाधिपाः । दूरार्था भाविनोऽतीता रामरावणचक्रिणः ॥ ८ ॥ स्यान्मिथ्यादृशो ज्ञानमेतेषां काप्यसंशयम् । संशयादथ हेतोर्वै दृग्मोहस्योदयात्सतः ॥ ९ ॥
१ इन्द्रियैः । २ अंतरिताः कालविप्रकृष्टाः, दूरार्थाः देशविप्रकृष्टाः इति ग्रन्थान्तरेषु ।