________________
सम्यग्दर्शनसामान्यलक्षणवर्णनम् ।
१७
एवमेव च सा चेत्स्यात्कुलाचारक्रमात्परम् । विना नियमादि तावत्प्रोच्यते सा कुलक्रिया ॥ १२९ ॥ भावशून्याः क्रिया यस्मान्नेष्टसिध्धै भवन्ति हि । क्रियामात्रफलं चास्ति स्वल्पभोगानुषङ्गजम् ।। १३० ॥ दर्शनप्रतिमा नास्य गुणस्थानं न पश्चमम् । केबलं पाक्षिकः सः स्याद्गुणस्थानादसंयतः ॥ १३१ ॥ किश्च सोपि क्रियामात्रात्कुलाचारक्रमागतात् ।। स्वर्गादिसम्पदोभुक्त्वाक्रमाद्याति शिवालयम् ॥ १३२ ॥ सम्यक्त्वेन विहीनोऽपि नियमेनाप्यथोज्झितः । योपि कुलक्रियासक्तः स्वर्गादिपदभाग्भवेत् ।। १३३ ॥ अथ क्रियां च तामेव कुलाचारोचितां पराम् । व्रतरूपेण गृह्णाति तदा दर्शनिको मतः ॥ १३४ ॥ दर्शनप्रतिमा चास्य गुणस्थानं च पञ्चमम् । संयतासंयताख्यश्च संयमोस्य जिनागमात् ।। १३५ ॥ दृगायेकादशान्तानां प्रतिमानामनादितः । पञ्चमेन गुणेनामा व्याप्तिः साधीयसी स्मृतेः ।। १३६ ॥ ननु या प्रतिमा प्रोक्ता दर्शनाख्या तदादिमा । जैनानां सास्ति सर्वेषामर्थादवतिनामपि ॥ १३७ ।। मैवं सति तथा तुर्य-गुणस्थानस्य शून्यता । नूनं दृग्प्रतिमा यस्माद्गुणे पश्चमके मता ॥ १३८ ॥ नोां हरप्रतिमामात्रमस्तु तुर्यगुणे नृणाम् । व्रतादिप्रतिमाःशेषाः सन्तु पञ्चमके गुणे ॥ १३९ ॥ मैवं सति नियमादावव्रतित्वं कुतोऽर्थतः । व्रतादिप्रतिमासूञ्चैरव्रतित्वानुषङ्गतः ।। १४० ॥ ततो विविक्षितं साधु सामान्यात्सा कुलकिया। नियमेन सनाथा चेद्दर्शनप्रतिमात्मिका ॥ १४१ ॥
१ अव्रतप्रसङ्गन्तः।