SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४८ लाटीसंहितायां किच मूलगुणादीनामादानेऽथापि वर्जने । समस्ते प्रतिमास्त्याद्या व्यस्तेसति कुलक्रिया ॥ १४२ ॥ यथा चैकस्य कस्यापि व्यसनस्योज्झने कृते । दर्शनप्रतिमा न स्यात्स्याद्वा साध्वी कुलक्रिया ॥ १४३ ॥ यदा मूलगुणादानं द्यूतादिव्यसनोज्झनम् । दर्शनं सर्वतश्चैतत्त्रयं स्यात्प्रतिमादिमा ॥ १४४ ॥ दर्शनप्रतिमायास्तु कियाया व्रतरूपतः । तस्याः कुलक्रियायाश्चाविशेषोप्यस्ति लेशतः ॥ १४५ ॥ प्रमादोद्रेकतोवश्यं सदोषाः स्यात्कुलक्रियाः । निर्दोषाः स्वल्पदोषा वा दर्शनप्रतिमाक्रियाः ॥ १४६ ॥ यथा कश्चित्कुलाचारी यूतातिव्यसनोज्झनम् । कुर्याद्वा न यथेच्छायां कुर्यादेव दृगात्मकः ॥ १४७ ॥ अथ च पाक्षिको यद्वा दर्शनप्रतिमान्वितः । प्रकृतं न परं कुर्यात्कुर्याद्वा वक्ष्यमाणकम् ॥ १४८ ॥ प्रामाणिकः क्रमोप्येष ज्ञातव्यो व्रतसंचये । भावना चागृहीतस्य व्रतस्यापि न दूषिका ॥ १४९ ॥ भावयेद्भावनां नूनमुपर्युपरि सर्वतः । यावन्निर्वाण संप्राप्तौ पुंसोवस्थान्तरं भवेत् ॥ १५० ॥ उक्तं च । जं सक्कइ तं कीरइ जं च ण सक्कइ तहेव सद्दहणं । सद्दहणमाणो जीवो पावइ अजरामरं ठाणं ॥ ९॥ यथात्र पाक्षिकः कश्चिद्दर्शनप्रतिमोऽथदा । उपर्युपरि शुद्धयर्थं यद्यत्कुर्यात्तदुच्यते ॥ १५१ ॥ सर्वतोविरतिस्तेषां हिंसादीनां व्रतं महत् । नैतत्सागारिभिः कर्तुं शक्यते लिङ्गमर्हताम् ॥ १५२ ॥ 11 १ व्यसनानाम् ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy