SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५६ लाटीसंहितायां गर्हणं तत्परित्यागः पञ्चगुर्वात्मसाक्षिकः । निष्प्रमादतया नूनं शक्तितः कर्महानये ॥ ११७ ॥ अर्थादेव द्वयं सूक्तं सम्यक्त्वस्योपलक्षणम् । प्रशमस्य कषायाणामनुद्रेकाविशेषतः ॥ ११८ ॥ . शेषमुक्तं यथानायाद् ज्ञातव्यं परमागमात् । आगमाब्धेः परंपारं माहग्गन्तुं क्षमः कथम् ॥ ११९ ॥ एवमित्यादिसत्यार्थ प्रोक्तं सम्यक्त्वलक्षणम् । कैश्चिल्लक्षणिकैः सिद्धैः प्रसिद्ध सिद्धसाधनात् ॥ १२० ॥ भवेद्दर्शनिको नूनं सम्यक्त्वेन युतो नरः । दर्शनप्रतिमाभासः क्रियावानपि तद्विना ॥ १२१ ।। देशतः सर्वतश्चापि क्रियारूपं व्रतादि यत् । सम्यक्त्वेन विना सर्वमव्रतं कुतपश्च तत् ॥ १२२ ॥ ततः प्रथमतोऽवश्यं भाव्यं सम्यक्त्वधारिणा । अवतिनाणुव्रतिना मुनिनाथेन सर्वतः ।। १२३ ॥ ऋते सम्यक्त्वभावं यो धत्ते व्रततपःक्रियाम् । तस्य मिथ्यागुणस्थानमेकं स्यादागमे स्मृतम् ।। १२४ ॥ प्रकृतोपि नरो नैव मुच्यते कर्मबन्धनात् । सएव मुच्यतेऽवश्यं यदा सम्यक्त्वमश्नुते ॥ १२५ ॥ किश्च प्रोक्ता क्रियाप्येषा दर्शनप्रतिमात्मिका। सम्यक्त्वेन युता चेत्सा तद्गुणस्थानवर्तिना ॥ १२६ ॥ तत्राप्यस्ति विशेषोऽयंतुर्यपश्चमयोर्द्वयोः । योगाद्वा रूढितश्चापि गुणस्थानविशेषयोः ॥ १२७ ।। सैवैका क्रिया साक्षादष्टमूलगुणात्मिका । व्यसनाद्युज्झिता चापि दर्शनेन समन्विता ॥ १२८ ॥ १ पण्डितोपि ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy