SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४५.. सम्यग्दर्शनसामान्यलक्षणवर्णनम् । स्वात्मानुभूतिमात्रं स्यादास्तिक्यं परमो गुणः । भवेन्मा वा परद्रव्ये ज्ञानमात्रे परत्वतः ॥ १०६ ॥ अपि तत्र परोक्षत्वे जीवादौ परवस्तुनि । .. गाढं प्रतीतिरस्यास्ति यथा सम्यग्दृगात्मनः ॥ १०७ ॥. न तथास्ति प्रतीतिर्वा नास्ति मिथ्यादृशःस्फुटम् । दृग्मोहस्योदयात्तत्र भ्रान्तेः सदावतोऽनिशम् ।। १०८ ॥ ततः सिद्धमिदं सम्यग्युक्तिस्वानुभवागमात् । सम्यक्त्वेनाविनाभूतं सत्रास्तिक्यं गुणो महान् ॥ १०९ ।। - उक्तं च। । संवेओ निव्वेओ जिंदण गरहा य उवसमो भत्ती। वच्छल्लं अणुकंपा अहगुणा हुंति सम्मत्ते ।। ८ ॥ उक्तं गाथार्थसूत्रेपि प्रशमादिचतुष्टयम् । नातिरिक्तं यतोऽस्यत्र लक्षणस्योपलक्षणम् ॥ ११०॥ अस्त्युपलक्षणं यत्तल्लक्षणस्यापि लक्षणम् । तद्यथास्त्यादिलक्ष्यस्य लक्षणं चोत्तरस्य तत् ॥ १११ ॥ . यथा सम्यक्त्वभावस्य संवेगो लक्षणं गुणः । संचोपलक्ष्यते भक्त्या वात्सल्येनाथवाहताम् ।। ११२ ॥ तत्र भक्तिरनौद्धत्यं वाग्वपुश्चेतसां शमात् । . वात्सल्यं तद्गुणोत्कर्षहेतवे सोद्यतं मनः ॥ ११३ ॥, भक्तिर्वा नाम वात्सल्यं न स्यात्संवेगमन्तरा । संवेगो हि दृशो लक्ष्म द्वावेतावुपलक्षणौ ॥ ११४॥ - हग्मोहस्योदयाभावात्प्रसिद्धः प्रशमो गुणः । तत्रापि व्यञ्जकं बाह्यान्निन्दनं चापि गर्हणम् ॥ ११५ ॥ निन्दनं तत्र दुर्वाररागादौ दुष्टकर्मणि । पश्चात्तापकरो बन्धो नोपेक्ष्यो नाप्यपेक्षितः ॥ ११६ ॥ १ अन्यत् न । २ संवेगः। -
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy