SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४४ लाटीसंहितायांसमता सर्वभूतेषु यानुकम्पा परत्र सा। 'अर्थतः स्वानुकम्पा स्याच्छल्यवच्छल्यवर्जनात् ॥ ९३ ॥ रागाद्यशुद्धभावानां सद्भावे बन्ध एव हि । न बन्धस्तदसद्भावे तद्विधेया कृपात्मनि ॥ ९४ ॥ ओस्तिक्यं संत्त्वसद्भावे स्वतः सिद्ध गतिश्चितः । धर्मे हेतौ च धर्मस्य फले चात्मादि धर्मवित् ।। ९५ ॥ अस्त्यात्मा जीवसंज्ञो यः स्वतःसिद्धोप्यमूर्तिमान् । चेतनः स्यादजीवस्तु यावानप्यस्त्यचेतनः ॥ ९६ ॥ अस्त्यात्मानादितो बद्धः कर्मभिः कार्मणात्मकैः । कर्ता भोक्ता च तेषां हि तत्क्षयान्मोक्षभाग्भवेत् ॥ ९७ ॥ अस्ति पुण्यं च पापं च तद्धेतुस्तत्फलं च वै । आस्रवाद्यास्तथा सन्ति तस्य संसारिणोऽनिशम् ॥ ९८ ।। अस्त्येवं पर्ययादेशाद्वन्धो मोक्षस्तु तत्फलम् । अपि शुद्धनयादेशात शुद्धः सर्वोपि सर्वदा ॥ ९९ ॥ तत्राय जीवसंज्ञो यः स्वयंवेद्यश्चिदात्मकः । सोहमन्ये तु रागाद्याः हेयाः पौगलिका अमी ॥ १०॥ इत्याद्यनादिजीवादि वस्तुजातं यतोऽखिलम् । निश्चयव्यवहाराभ्यामास्तिक्यं तत्तथामतिः ॥ १०१ ॥ सम्यक्त्वेनाविनाभूतस्वानुभूत्येकलक्षणम् । आस्तिक्यं नाम सम्यक्त्वं मिथ्यास्तिक्यं ततोन्यथा ॥ १०२ ।। ननु वै केवलज्ञानमेकं प्रत्यक्षमर्थतः । न प्रत्यक्षं कदाचित्तच्छेषज्ञानचतुष्टयम् ॥ १०३ ॥ यदि वा देशतोध्यक्षमाक्ष्यं स्वात्मसुखादिवत् । . स्वसंवेदनप्रत्यक्षमास्तिक्यं तत्कुतीर्थतः ॥ १०४ ॥ सत्यमाद्यद्वयं ज्ञानं परोक्षं परसंविदि । 'प्रत्यक्षं स्वानुभूतौ तु दृग्मोहोपशमादितः ॥ १०५ ॥ १ प्रतीतिः ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy