________________
४२
लाटीसंहितायां
लब्धिःस्यादविशेषाद्वा सदसतोरुन्मत्तवत् । नोपलब्धिरिहाख्याता तच्छेषानुपलब्धिवत् ॥ ६७ ॥ ततोस्ति यौगिकी रूढिः श्रद्धा सम्यक्त्वलक्षणम् । अर्थादप्यविरुद्धं स्यात्सूक्तं स्वात्मानुभूतिवत् ॥ ६८ ॥ गुणाश्चान्ये प्रसिद्धा ये सद्दृष्टेः प्रशमादयः । बहिर्दृष्टया यथा स्वं ते सन्ति सम्यक्त्वलक्षणम् ॥ ६९ ॥ तत्राद्यःप्रशमो नाम संवेगश्च गुणः क्रमात् । अनुकम्पा तथास्तिक्यं वक्ष्ये तल्लक्षणं यथा ॥ ७० ॥ प्रशमो विषयेषूच्चै वक्रोधादिकेषु च । लोकासंख्यातमात्रेषु स्वरूपाच्छिथिलं मनः ॥ ७१ ।। सद्यः कृतापराधेषु यद्वा जीवेषु जातुचित् । तद्वधादिविकाराय न बुद्धिः प्रशमो मतः ।। ७२ ॥ हेतुस्तत्रोदयाभावः स्यादनन्तानुबन्धिनाम् । अपि शेषकषायाणां नूनं मन्दोदयोंऽशतः ॥ ७३ ॥ आरम्भादि क्रिया तस्य दैवाद्वा स्यादकामतः । अन्तः शुद्धेः प्रसिद्धत्वानहेतुः प्रशमक्षतेः ॥ ७४ ॥ सम्यक्त्वेनाविनाभूतः प्रशमः परमो गुणः । अन्यत्र प्रशमं मन्ये प्याभासः स्यात्तदत्ययात् ॥ ७५ ॥ संवेगः परमोत्साहो धर्मे धर्मफले चितः । सधर्मेष्वनुरागो वा प्रीतिर्वा परमेष्ठिषु ॥ ७६ ॥ धर्मः सम्यक्त्वमात्रात्मा शुद्धास्यानुभवोऽथवा । तत्फलं सुखमत्यक्षमक्षयं क्षायिकं च यत् ॥ ७७ ॥ इतरत्र पुनारागस्तद्गुणेष्वनुरागतः । नातद्गुणोनुरागोपि तत्फलस्याप्यालप्सया ॥ ७८ ॥ अत्रानुरागशब्देन नाभिलाषो निरुच्यते । किन्तु शेषमधर्माद्वा निवृत्तिस्तत्फलादपि ॥ ७९ ॥
१ प्रशमनाशहेतुर्न भवति । २ मिथ्यादृष्टौ ।