________________
सम्यग्दर्शनसामान्यलक्षणवर्णनम् ।
४१
M
तद्यथा सुखदुःखादिभावो जीवगुणःस्वयम् । . ज्ञानं तद्वेदकं नूनं नार्थाद्ज्ञानं सुखादिमत् ॥ ५४॥ अपि सन्ति गुणाः सम्यक् श्रद्धानादिविकल्पकाः । उद्देशो लक्षणं तेषां तत्परीक्षाधुनोच्यते ॥ ५५ ॥ तत्रोद्देशो यथा नाम श्रद्धारुचिप्रतीतयः । चरणं च यथाम्नायादर्थात्तत्त्वार्थगोचरम् ।। ५६ ॥ तत्त्वार्थाभिमुखी बुद्धिः श्रद्धा सात्म्यं रुचिस्तथा । . प्रतीतिस्तु तथेति स्यात्स्वीकारश्चरणं क्रिया ।। ५७ ॥ अर्थादाद्यत्रिकं ज्ञानं ज्ञानस्यैवार्थपर्ययात् । क्रिया वाकायचेतोभिर्व्यापारः शुभकर्मसु ।। ५८ ॥ व्यस्ताश्चैते समस्ता वा सदद्दष्टेलक्षणं न वा। सपक्षे वा विपक्षे वा सन्ति यद्वा न सन्ति वा ॥ ५९॥ स्वानुभूतिसनाथाश्चेत्सन्ति श्रद्धादयो गुणाः । स्वानुभूतिं विनाभासाः नार्थाच्छद्धादयो गुणाः ॥ ६० ।। तस्माच्छ्रद्धादयःसर्वे सम्यक्त्वं स्वानुभूतिवत् । न सम्यक्त्वं तदाभासा मिथ्याश्रद्धादिवञ्चितः ॥ ६१ ।। सम्यग्मिथ्याविशेषाभ्यां विना श्रद्धादिमात्रकाः । सपक्षवद्विपक्षेपि वृत्तित्वाद् व्यभिचारिणः ।। ६२ ॥ अर्थाच्छद्धादयः सम्यग्दृष्टिश्रद्धादयो यतः । मिथ्याश्रद्धादयो मिथ्या नार्थाच्छ्रद्धादयो यतः ॥ ६३ ॥ ननु तत्त्वरुचिःश्रद्धा श्रद्धामात्रैकलक्षणात् । सम्यग्मिथ्याविशेषाभ्यां सा द्विधा तु कुतोऽर्थतः ॥ ६४ ।। नैवं यतः समव्याप्तिः श्रद्धास्वानुभवद्वयोः । नूनं नानुपलब्धार्थे श्रद्धा खरविषाणवत् ।। ६५ ।। विना स्वात्मानुभूतिं तु या श्रद्धा श्रुतमात्रतः ।। तत्त्वाथोनुगताप्यथोच्छ्रद्धा नानुपलब्धितः ।। ६६ ।। १ भिन्ना भिन्नाः । २ अप्राप्ते वस्तुनि ।