________________
लाटीसंहितायां
श्रद्धानादिगुणा:बाह्यं लक्ष्म सम्यग्दृगात्मनः । न सम्यक्त्वं तदेवेति सन्ति ज्ञानस्य पर्ययाः ॥ ४१ ।। अपि चात्मानुभूतिश्च ज्ञानं ज्ञानस्यपर्ययात् । अर्थादज्ञानं न सम्यक्त्वमस्ति चेद्वाह्यलक्षणम् ॥ ४२ ॥ यथोल्लाही हि दुर्लक्ष्यो लक्ष्यते स्थूललक्षणैः । वाग्मनःकायचेष्टाणामुत्साहादिगुणात्मकैः ॥ ४३ ॥ निन्वात्मानुभवः साक्षात्सम्यक्त्वं वस्तुतःस्वयम् । सर्वतः सर्वकालस्य मिथ्यादृष्टेरसम्भवात् ॥ ४४ ॥ र नैवं यतोऽनभिज्ञोऽसि सत्सामान्यविशेषयोः । अप्यनाकारसाकारलिङ्गयोस्तद्यथोच्यते ॥ ४५ ॥ आकारोऽर्थविकल्पःस्यादर्थःस्वपरगोचरः ।। सोपयोगो विकल्पो वा ज्ञानस्यैतद्धि लक्षणम् ।। ४६ ।। नाकारः स्यादनाकारो वस्तुतो निर्विकल्पता । शेषानन्तगुणानां तल्लक्षणं ज्ञानमन्तरा ॥ ४७ ॥ नन्वस्ति वास्तवं सर्व सामान्यं च विशेषवत् । तत्किञ्चित्स्यादनाकारं किञ्चित्साकारमेव तत् ॥ ४८ ॥ सत्यं सामान्यवद्ज्ञानमर्थाच्चास्ति विशेषवत् । यत्सामान्यमनाकारं साकारं यद्विशेषभाक् ॥ ४९ ॥ .. ज्ञानाद्विना गुणाःसर्वे प्रोक्तसल्लक्षणाङ्किताः । क्ता: सामान्याद्वा विशेषाद्वा सन्त्यनाकारलक्षणाः ॥ ५० ॥ ततोवक्तुमशक्यत्वानिर्विकल्पस्य वस्तुनः । तदुल्लेखं समालेख्य ज्ञानद्वारा निरूप्यते ॥ ५१ ॥ स्वापूर्वार्थद्वयोरेव ग्राहकं ज्ञानमेकशः । नात्र ज्ञानमपूर्वार्थो ज्ञानं ज्ञानं परः परः ।। ५२॥ स्वार्थोहि ज्ञानमात्रस्य ज्ञानमेकं गुणश्चितः । परार्थाः स्वात्मसम्बन्धिगुणाः शेषाः सुखादयः ।। ५३ ।। १ आरोग्यभावः । २ स्वपरार्थद्वयोरित्यपि पाठः । ३ आत्मनः ।