________________
सम्यग्दर्शनसामान्यलक्षणवर्णनम् ।
Www
उक्तमाक्षं सुखं ज्ञानमनादेयं दृगात्मनः । नादेयं कर्मसर्वस्वं तद्वदृष्टोपलब्धितः ॥ २९ ॥ सम्यक्त्वं वस्तुतः सूक्ष्मं केवलज्ञानगोचरम् । गोचरं वावधिस्वान्तपर्ययज्ञानयोर्द्वयोः ॥ ३०॥ न गोचरं मतिज्ञानश्रुतविज्ञानयोमैनाक् । नापि देशावधेस्तत्र विषयोनुपलब्धितः ।। ३१ ॥ - अस्त्यात्मनो गुणः कश्चित्सम्यक्त्वं निर्विकल्पकम् । तद्ग्मोहोदयान्मिथ्यास्वादरूपमनादितः ॥ ३२ ॥ दैवात्कालादिसंलब्धौ प्रत्यासन्ने भवार्णवे । भव्यभावविपाकाद्वा जीवः सम्यक्त्वमश्नुते ॥ ३३ ॥ प्रयत्नमन्तरेणापि दृग्मोहोपशमो भवेत् ।। अन्तर्मुहूर्तमानं च गुणश्रेण्यनतिक्रमात् ॥ ३४ ॥ अस्त्युपशमसम्यक्त्वं दृग्मोहोपशमाद् यथा । पुंसोऽवस्थान्तराकारं नाकारं चिद्विकल्पकैः ॥ ३५ ॥ सामान्याद्वा विशेषाद्वा सम्यक्त्वं निर्विकल्पकम् । .. सत्तारूपं पारिणॉमि प्रदेशेषु परं चितः ॥ ३६॥ तत्रोल्लेखस्तमोनाशे तमोरेरिव रश्मिभिः । दिशः प्रसौंदमासेदुःसर्वतो विमलाशयाः ।। ३७ ।। दृग्मोहोपशमे सम्यग्दृष्टेरुल्लेख एष वै । शुद्धत्वं सर्वदेशेषु त्रिधा बन्धापहारि यत् ।। ३८ ॥ यथा वा मद्यधत्तूरपाकस्यास्तंगतस्य वै । उल्लेखो मूच्छितो जन्तुरुल्लाघः स्यादमूर्छितः ॥ ३९ ॥ हग्मोहस्योदयान्मूछोवैचित्यं वा तथा भ्रमः । प्रशान्ते तस्य मूच्र्छाया नाशाज्जीवो निरामयः ॥ ४० ॥
१ ऐन्द्रियिकम् । २ अवधिमनःपर्यययोः। 3 प्राप्नोति । ४ बिना। ५ ख ग पुस्तकयोः परिणामि इति पाठः । ७ सूर्यस्य । ८ निर्मलतांपापुः । ९ दृष्टान्तः इति उल्लेखः। ९ मनःशून्यत्वम् ।