________________
लाटीसंहितायां
यावत्साधारणं त्याज्यं त्याज्यं यावत्रसाश्रितम् । एतत्त्यागे गुणोवश्यं संग्रहे स्वल्पदोषता ॥ १०७ ॥ ननु साधारणं यावत्तत्सर्वं लक्ष्यते कथम् । सत्यं जिनागमे प्रोक्ताल्लक्षणादेव लक्ष्यते ।। १०८ ।। तल्लक्षणं यथा भङ्गे समभागः प्रजायते । तावत्साधारणं ज्ञेयं शेषं प्रत्येकमेव तत् ।। १०९ ।। तत्राप्यत्यल्पीकरणं योग्यं योगेषु वस्तुषु । म्य यतस्तृष्णानिवृत्यर्थमेतत्सर्वं प्रकीर्तितम् ।। ११० ।। इति संक्षेपतः ख्यातं साम्ना मूलगुणाष्टकम् । अर्थादुत्तरसंज्ञाश्च गुणाःस्युरॅहमेधिनाम् ।। १११ ।। तांस्तानवसरे तत्र वक्ष्यामः स्वल्पविस्तरात् । इतः प्रसङ्गतो वक्ष्ये तत्सप्तव्यसनोज्झनम् ॥ ११२ ।। द्यूतमांससुरावेश्याखेटचौर्यपराङ्गनाः । महापापानि सप्तेति व्यसनानि त्यजेद्बुधः ॥ ११३ ॥ अक्षपासादिनिक्षिप्तं वित्ताजयपराजयम् । क्रियायां विद्यते यत्र सर्वं छूतमिति स्मृतम् ।। ११४ ॥ प्रसिद्धं द्यूतकर्मेदं सद्यो बन्धकरं स्मृतम् । यावदापन्मयं ज्ञात्वा त्याज्यं धर्मानुरागिणा ॥ ११५ ।। तत्र बह्वः कथाः सन्ति द्यूतस्यानिष्टसूचिकाः । रतास्तत्र नराः पूर्वं नष्टा धर्मसुतादयः ॥ ११६ ॥ . श्रूयते दृश्यते चैव द्यूतस्यैतद्विजृम्भितम् । दरिद्राः कर्तितोपाङ्गा नराः प्रास्ताधिकारकाः ॥ ११७ ॥ न वाच्यं द्यूतमात्रं स्यादेकं तद्व्यसनं मनाक् । चौर्यादि सर्वव्यसनपतिरेष न संशयः ॥ ११८ ॥
१ उत्तरगुणान् । २ फलम् ।