SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २४ लाटीसंहितायां सत्यं बहुबधादत्र भक्ष्यत्वं नोक्तमर्हता । कुतश्चित्कारणादेव नोलंघ्यं जिनशासनम् ॥ ८५ ॥ एवं चेत्तत्र जीवास्ते कियन्तो वद कोविद | हेतोर्यदत्र सर्वज्ञैरभक्ष्यत्वमुदीरितम् ।। ८६ ।। घनाङ्गुलासंख्यभागभागकं तद्वपुः स्मृतम् । तत्रैकस्मिन् शरीरे स्युः प्राणिनोऽनन्तसंज्ञिताः ॥ ८७ ॥ उक्तं च । एयणिगोयसरीरे जीवा दव्वप्यमाणदो दिट्ठा । सिद्धेहिं अनंतगुणा सव्वेण वितीदकालेण ॥ ७ ॥ इदमेवात्र तात्पर्यं तावन्मात्रावगाहके । केचिन्मिथोवगाहाः स्युरेकीभावादिवापरे ।। ८८ ।। उक्तं च । जंबूदीवे भरहे कोसलसाकेय तग्घरायं च । खंधंडर आवासा पुलविसरीराणि दिहंता ॥ ८ ॥ एतन्मत्वार्हता प्रोक्तमाजवजव भीरुणा । कन्दादिलक्षणत्यागे कर्तव्या सुमतिः सती ।। ८९ ॥ एवमन्यदपि त्याज्यं यत्साधारणलक्षणम् । त्रसाश्रितं विशेषेण तद् द्वियुक्तस्य का कथा ॥ ९० ॥ साधारणं च केषांचिन्मूलं स्कन्धस्तथागमात् । शाखाः पत्राणि पुष्पाणि पर्वदुग्धफलानि च ॥ ९१ ॥ तत्र व्यस्तानि केषांचित्समस्तान्यथदेहिनाम् । पापमूलानि सर्वाणि ज्ञात्वा सम्यक् परित्यजेत् ।। ९२ । मूलसाधारणास्तत्र मूलकाश्चाद्रकादयः । महापापप्रदाः सर्वे मूलोन्मूल्या गृहितैः ॥ ९३ ॥ स्कन्धपत्रपयः पर्व तुर्यसाधारणा यथा । गंडीरकस्तथा चार्कदुग्धं साधारणं मतम् ॥ ९४ ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy