SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मूलगुणाष्टकप्रतिपालसप्तव्यसननिरोधवर्णनम् । २ wwwwwww साहारणमाहारं साहारणमाणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं भणियं ।। ५॥ जत्थेक्कमरइ जीवो तत्थ दु मरणं हवे अणंताणं । चंकमइ जत्थ इक्को चंकमणं तत्थ णंताणं ॥ ६ ॥ मूलबीजा यथाप्रोक्ता फलकाद्याद्रकादयः । . न भक्ष्या दैवयोगाद्वा रोगिणाप्यौषधच्छलात् ।। ८०॥ तद्भक्षणे महापापं प्राणिसन्दोह्पीडनात् । सर्वज्ञाज्ञावलादेतदर्शनीयं दृगङ्गिभिः ॥ ८१ ॥ ननु केनानुमीयेत हेतुना पक्षधर्मता। प्रत्यक्षानुपलब्धित्वाज्जीवाभावोवधार्यते ॥ ८२ ॥ मैवं प्रागेव प्रोक्तत्वात्स्वभावोऽतर्कगोचरः । तेन सर्वविदाज्ञायाः स्वीकर्तव्यं यथोदितत् ॥ ८३ ॥ नन्वस्तु तत्तदाज्ञाया पृष्ठुमीहामहे परम् । यदेकाक्षशरीराणां भक्ष्यत्वं प्रोक्तमहता ॥ ८४ ॥ १ यत्साधारणनामकर्मोदयवशवय॑नन्तजीवानां उत्पन्नप्रथमसमये आहारपर्याप्तिः तत्कार्यंचाहारवर्गणायातपुद्गलस्कन्धानां खलरसभागपरिणमनं साधारणसदृशं समकालं च भवति । तथा शरीरपर्याप्तिः तत्कार्यंचाहारवर्गणायातपुद्गलस्कन्धानां शरीराकारपरिणमनं । इन्द्रियपर्याप्तिः तत्कार्य च स्पर्शनादीन्द्रियाकारपरिणमनम् । आनपान पर्याप्तिः तत्कार्य च उच्छासनिःश्वासग्रहणं । साधारणं समकालं च भवति । तथा प्रथमसमयोत्पन्नानामिव तत्रैव शरीरे द्वितीयादिसमयोत्पन्नानामप्यनन्तानन्तजीवानां पूर्वपूर्वसमयोत्पन्नानामनन्तानन्तजीवैः सहआहारपर्याप्त्यादिकं सर्व सदृशं समकालं च भवति । तदिदं साधारणलक्षणं भणितम् । नि-नियमादनन्तसंख्यावच्छिन्नानां जीवानां गोदं क्षेत्रं स्थानं ददातीति निगोदं कर्म । तद्यक्ता जीवा निगोदा इत्युच्यते। अथवा नियतानां अनन्तानन्तजीवानां एकां एव गां भूमि क्षेत्रं निवासं ददातीति निगोदं तत् शरीरं येषां ते निगोदाः । एकोच्छासनिःश्वासे अष्टादश वारं जन्म रुत्वा अष्टादशवारं मरणं कुर्वति ॥ २ यत्र एकः म्रियते जीवः तत्र तु मरणं भवेत् अनन्तानाम् चंक्रमते यत्र एकः चंक्रमणं तत्र अनन्तानाम् । ३ आगमनम्-जन्म । ४ विचारगोचरो नास्ति ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy