SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां xxxmmmmmmmmmmmmmmmm किञ्च तत्र निकोतादिजीवाः संसर्गजाः क्षणात् । सन्मूर्च्छिमा न मुञ्चन्ति तत्सङ्गं जातु क्रव्यवत् ।। ७४ ॥ यथा पकं च शुष्कं वा पलं शुद्धं न जातुचित् । प्रासुकं न भवेत्कापि नित्यं साधारणं यतः ।। ७५ ॥ अयमों यथान्नादि कारणात्प्रासुकं भवेत् । शुष्कं वाप्यग्निपक्कं वा प्रासुकं न तथामिषम् ।। ७६ ॥ प्राग्वदत्राप्यतीचाराः सन्ति केचिन्जिनागमात् । यथा पुष्परस: पीतः पुष्पाणामासवो यथा ।। ७७ ॥ उदुम्बरफलान्येव नादेयानि दृगात्मभिः । नित्यं साधारणान्येव साङ्गैराश्रितानि च ।। ७८ ॥ अत्रोदुम्बरशब्दस्तु नूनं स्यादुपलक्षणम् । तेन साधारणास्त्याज्या ये वनस्पतिकायिकाः ॥ ७९ ॥ उक्तं च । मूलग्गपोरवीआ साहा तह खंधकंदवीअरुहा । सम्मुच्छिमा य भणिया पत्तेयाणंतकाया य ॥ ४ ॥ १ अस्यार्थः—येषां प्रत्येकवनस्पतीनां कन्दस्य वा मूलस्य वा शाखाया वा स्कन्धस्यापि वा त्वम्बहुलतरा स्थूलतरा भवन्ति तेषां अनन्तजीवाः अनन्तजीवैः निगोदजीवैः सहिताः प्रतिष्ठितप्रत्येकाः इत्यर्थः । तु पुनः येषां कन्दादीनां त्वक् तनुतरा अत्यल्पा ते अप्रतिष्ठितप्रत्येकाः भवन्ति । मूलं बीजं येषां ते मूलबीजाः आद्रकहरिद्रादयः, अगं बीजं येषां ते अग्रबीजाः आर्यकोदीच्यादयः । फरास. केतकीजात्यादयः । पर्व बीजं येषां ते पर्वबीजाः इचवेत्रादयः । कन्दो बीजं येषा ते कन्दबीजाः पिण्डालु सूरणादयः । स्कन्धो बीजं येषां ते स्कन्धबीजाः सल्लकी कण्टकीपलाशादयः । बीजात् रोहन्तीति बीजरुहाः । शालिगोधूमादयः । सम्मूर्छ समंतात् प्रसृतपुद्गलस्कंधेन वा सम्मछिमाः । अनन्तानन्तनिगोदजीवानां कायाः प्रतिष्ठितप्रत्येकाः । चशब्दात् अप्रतिष्ठितप्रत्येका: सन्तीत्यर्थः । एते मलबीजादिसम्मछिमपर्यन्ताः प्रतिष्ठिताप्रतिष्ठितप्रत्येकशरीरजीवास्तेपि सम्मर्छिमा एव भवन्ति । प्रतिष्ठितं साधारणशरीरं आश्रित्य प्रत्येकं शरीरं येषां ते प्रतिष्ठितप्रत्येकशरीरा अप्रतिष्ठितप्रत्येकशरीराः स्युः इति गाथार्थः ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy