________________
मूलगुणाष्टकप्रतिपालसप्तव्यसननिरोधवर्णनम् ।
न वाच्यमकिञ्चित्करं वस्तुबाह्यमकारणम् । धत्तूरादिविकाराणामिन्द्रियार्थेषु दर्शनात् ॥ ६३ ॥
उक्तं च । यद्वस्तुबाह्यं गुणदोषसूतेर्निमित्तमभ्यन्तरमूलहेतोः । अध्यात्मवृत्तस्य तदङ्गभूतमभ्यन्तरं केवलमप्यलं ते ।। ३॥ . एवं मांसाशनाद्भावोऽवश्यं संक्लेशितो भवेत् । तस्मादसातवन्धः स्यात्ततो भ्रान्तिस्ततोऽसुखम् ॥ ६४ ।। . एतदुक्तं परिज्ञाय श्रद्धाय च मुहुर्मुहुः । ततो विरमणं कार्यं श्रावकैर्धर्मवेदिभिः ॥ ६५ ॥ मद्यं त्यक्तवतस्तस्य वच्म्यतीचारवर्जनम् । यत्त्यागेन भवेच्छुद्धः श्रावको ज्ञातस्वर्णवत् ॥ ६६ ॥ हृषीकज्ञानयुक्तस्य मादनान्मद्यमुच्यते । ज्ञानाद्यावृत्तिहेतुत्वात्स्यात्तदवद्यकारणम् ॥ ६७ ॥ भङ्गाहिफेनधत्तूर खस्खसादिफलं च यत् । माद्यताहेतुरन्यद्वा सर्वं मद्यवदीरितम् ॥ ६८ ॥ एवमित्यादि यद्वस्तु सुरेव मदकारकम् । तनिखिलं त्यजेद्धीमान श्रेयसे ह्यात्मनो गृही ॥ ६९ ॥ दोषत्वं प्राग्मतिभ्रंशस्ततोमिथ्यावबोधनम् । रागादयस्ततः कर्म ततो जन्मेह क्लेशता ॥ ७० ॥ दिग्मात्रमत्र व्याख्यातं तावन्मात्रैकहेतुतः । व्याख्यास्यामः पुरो व्यासात्तद्तावसरे वैयम् ।। ७१ ॥ माक्षिकं मक्षिकानां हि मांसासक पीडनोद्भवम् । प्रसिद्धं सर्वलोके स्यादागमेष्वपि सूचितम् ॥ ७२ ।। न्यायात्तद्भक्षणे नूनं पिशिताशनदूषणम् । त्रसास्ता मक्षिका यस्मादामिषं तत्कलेवरम् ॥ ७३ ।। . १ उन्मादकारणात् । २ स्तोकमात्रम् । ३ विस्तरतः । 'क' पुस्तके " स्वयम् " इतिपाठः ।