SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां उक्तेषु वक्ष्यमाणेषु दर्शनिकव्रतेषु च। सन्देहो नैव कर्तव्यः कर्तव्यो व्रतसंग्रहः ॥ ५० ॥ प्रसिद्धं सर्वलोकेस्मिन् निशायां दीपसन्निधौ । पतङ्गादि पतत्येव प्राणिजातं त्रसात्मकम् ॥ ५१ ।। नियन्ते जन्तवस्तत्र झम्पापातासमक्षतः । तत्कलेवरसम्मिश्रं तत्कुतः स्यादनामिषम् ॥ ५२ ।। युक्तायुक्तविचारोपि नास्ति वा निशि भोजने । मक्षिका नेक्ष्यते सम्यक् का कथा मसकस्य तु ॥ ५३ ।। तस्मात्संयमवृद्धयर्थं निशायां भोजनं त्यजेत् । शक्तितस्तच्चतुष्कं स्यादन्नाद्यन्यतमादि वा ।। ५४ ॥ यत्रोषितं न भक्ष्यं स्यादन्नादि पलदोषतः । आसवारिष्टसन्धानाथानादीनां कथात्र का ॥ ५५ ॥ रूपगन्धरसस्पर्शाच्चलितं नैव भक्षयेत् । अवश्यं त्रसजीवानां निकोतानां समाश्रयात् ॥ ५६ ॥ दधितकरसादीनां भक्षणं वक्ष्यमाणतः । कालादाक् , ततस्तूर्द्ध न भक्ष्यं तदभक्ष्यवत् ।। ५७ ॥ इत्येवं पलदोषस्य दिग्मात्रं लक्षणं स्मृतम् । फलितं भक्षणादस्य वक्ष्यामि श्रृणुताधुना ॥ ५८ ॥ सिद्धान्ते सिद्धमेवैतत् सर्वतः सर्वदेहिनाम् । मांसांशस्याशनादेव भावः संक्लेशितो भवेत् ।। ५९ ॥ न कदाचित् मृदुत्वं स्याद्यद्योगं व्रतधारणे । द्रव्यतो कर्मरूपस्य तच्छक्तेरनतिकमात् ॥ ६० ।। अनाद्यनिधना नूनमचिन्त्या वस्तुशक्तयः । न प्रताः कुतकर्यत् स्वभावोऽतर्कगोचरः ।। ६१ ॥ अयस्कान्तोपलाकृष्टसूचीवत्तद्वयोःपृथक् । अस्ति शक्तिर्विभावाख्या मिथो बन्धादिकारिणी ॥ ६२॥ .
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy