________________
१८
लाटीसंहितायांदुरवधानतया मोहात्प्रमादाद्वापि शोधितम् । दुःशोधितं तदेव स्याद् ज्ञेयं चाशोधितं यथा ॥ २५ ॥ तस्मात्सद्तरक्षार्थ पलदोषनिवृत्तये। आत्मदृग्भिः स्वहस्तैश्च सम्यगन्नादि शोधयेत् ॥ २६ ॥ यथात्मार्थं सुवर्णादिक्रयार्थी सम्यगीक्षयेत् । ब्रतवानपि गृह्णीयादाहारं सुनिरीक्षितम् ॥ २७ ॥ सधर्मेणानभिज्ञेन साभिज्ञेन विधर्मिणा । शोधितं पाचितं चापि नाहरेद् व्रतरक्षकः ॥ २८ ॥ ननु केनापि स्वीयेन सधर्मेण विधर्मिणा । शोधितं पाचितं भाज्यं सुज्ञेन स्पष्टचक्षुषा ॥ २९ ॥ मैवं यथोदितस्योच्चैर्विश्वासो व्रतहानये । अनार्यस्याप्यनार्द्रस्य संयमे नाधिकारिता ॥ ३० ॥ चलितत्वात्सीम्नश्चैव नूनं भाविव्रतक्षतिः । शैथिल्याद्धीयमानस्य संयमस्य कुत: स्थितिः ॥ ३१ ॥ शोधितस्य चिरात्तस्य न कुर्याद् ग्रहणं कृती। कालस्यातिक्रमाद्भूयो दृष्टिपूतं समाचरेत् ॥ ३२ ॥ केवलेनाग्निना पकं मिश्रितेन घृतेन वा। उषितान्नं न भुञ्जीत पिशिताशनदोषवित् ॥ ३३ ॥ तत्रातिकालमात्रत्वे परिणामगुणात्तथा । सम्मूच्छयन्ते त्रसाः सूक्ष्माः ज्ञेयाः सर्वविदाज्ञया ॥ ३४ ॥ शाकपत्राणि सर्वाणि नादेयानि कदाचन । श्रावकांसदोषस्य वर्जनार्थं प्रयत्नतः ॥ ३५ ॥ तत्रावश्यं त्रसाः सूक्ष्माः केचित्स्युदृष्टिगोचराः । न त्यजन्ति कदाचित्तं शाकपत्राश्रयं मनाक् ॥ ३६ ॥ तस्माद्धर्मार्थिना नूनमात्मनो हितमिच्छता । आताम्बूलं दलं त्याज्यं श्रावकैदर्शनान्वितैः ।। ३७ ॥ १ मनःशून्यतया । २ निर्दयस्य । ३ वासिनम् ।