SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ मूलगुणाष्टकप्रतिपालसप्तव्यसननिरोधवर्णनम् । १७ vvvvvvvwmi सर्वं सर्वज्ञज्ञानेन दृष्टं विश्वकचक्षुषा । तदाज्ञया प्रमाणेन माननीयं मनीषिभिः ॥ १३ ॥ नोह्यमेतावता पापं स्याद्वा न स्यादतीन्द्रियात् । अंहो मांसाशिनोऽवश्यं प्रोक्तं जैनागमे यतः ।। १४ ॥ तदेवं वक्ष्यमाणेषु सूत्रेषूदितसूत्रवत् । संशयो नैव कर्तव्यः शासनं जैनमिच्छता ॥ १५ ॥ अन्नं मुद्गादि, शुंठ्यादि भेषजं, शर्करादि वा । खाद्यं, स्वाद्यं तु भोगार्थं ताम्बूलादि यथागमात् ॥ १६॥ पेयं दुग्धादि लेपस्तु तैलाभ्यङ्गादि कर्म यत् । चतुर्विधमिदं यावदाहार इति संज्ञितः ॥ २७ ॥ अथाहारकृते द्रव्यं शुद्धशोधितमाहरेत् । अन्यथामिषदोषः स्यात्तदनेकत्रसाश्रितात् ॥ १८ ॥ विद्धं त्रसाश्रितं यावद्वर्जयेत्तदभक्ष्यवत् । . शतशः शोधितं चापि सावधानैईगाँदिभिः ॥ १९ ॥ संदिग्धं च यदन्नादि श्रितं वा नाश्रितं त्रसैः । मनःशुद्धिप्रसिद्धर्थं श्रावकः कापि नाहरेत् ॥ २० ॥ अविद्धमपि निर्दोषं योग्यं चानाश्रितं त्रसैः । आचरेच्छ्रावकः सम्यग्दृष्टं नादृष्टमीक्षणैः ॥ २१ ॥ ननु शुद्धं यदन्नादि कृतं शोधनयानया । मैवं प्रमाददोषत्वात्कल्मषस्यास्रवो भवेत् ॥ २२ ॥ गालितं दृढवस्त्रेण सर्पिस्तैलं पयो द्रवम् । तोयं जिनागमानायादाहरेन्स न चान्यथा ॥ २३ ॥ अन्यथा दोष एव स्यान्मांसातीचारसंज्ञकः । अस्ति तत्र त्रसादीनां मतस्याङ्गस्य शेषता ॥ २४ ॥ १ न विचार्यम् । २ पापम् । ३ " क " "ख" पुस्तकयोः "अभक्षवत्" इति पाठः । ४ नेत्रादिभिः। २ ला० सं०
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy