________________
१६
लाटीसंहितायां
तत्रालसो जनः कश्चित्कषायभरगौरवात् । असमर्थस्तथाप्येष गृहस्थव्रतमाचरेत् ॥ ५ ॥
उक्तं च । गुणं वय तव सम पडिमा दाणं जलगालणं च अणस्थिमियं । दंसणणाणचरित्तं किरिया तेवण्ण सावयाणं च ॥ १॥
तथा चोक्तम् । दसण वय सामाइय पोसह सचित्त रायभत्ते य । बंभारंभपरिग्गह अणुमणमुद्दिढ देसविरदो य ॥ २ ॥ अष्टमूलगुणोपेतो द्यूतादिव्यसनोज्झितः । . नरो दर्शनिकः प्रोक्तः स्याचेत्सदर्शनान्वितः ॥ ६॥ मद्यं मांस तथा क्षौद्रमथोदुम्बरपञ्चकम् ।
वर्जयेच्छावको धीमान् केवलं कुलधर्मवित् ॥ ७ ॥ , ननु साक्षान्मकारादित्रयं जैनो न भक्षयेत् । तस्य किं वर्जनं न स्यादसिद्धं सिद्धसाधनात् ॥ ८ ॥ मैवं यस्मादतीचाराः सन्ति तत्रापि केचन । अनाचारसमाः नूनं त्याज्या धर्मार्थिभिः स्फुटम् ॥ ९ ॥ तद्भेदा बहवः सन्ति मादृशां वागगोचराः । तथापि व्यवहारार्थं निर्दिष्टाः केचिदन्वयात् ॥ १०॥ चर्मभाण्डे तु निक्षिप्ताःघृततैलजलादयः । त्याज्याः यतस्त्रसादीनां शरीरपिशिताश्रिताः ॥ ११ ॥ नचाशङ्कथं पुनस्तत्र सन्ति यद्वा न सन्ति ते । संशयोऽनुपलब्धित्वाद् दुर्वारो व्योमचित्रवत् ॥ १२ ॥
१ गुण शब्देन अष्टौ मूलगुणाः ज्ञेयाः । गुणाः ८, व्रतानि १२, तप १२, समता १, प्रतिमा ११, दानं ४, जलगालनं १, च अनस्तिमितम् १, । दर्शनज्ञानचरित्रं ३, कियाः त्रिपञ्चाशत् श्रावकानां च ।
.