SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां सारोद्धारमिवाप्यनुग्रहतया स्वल्पाक्षरं सारवत् । आर्षं चापि मृदूक्तिभिः स्फुटमनुच्छिष्टं नवीनं मह-: निर्माणं परिधेहि सङ्घनृपतिः भूयोप्यवादीदिति ॥ ८० ॥ श्रुत्वेत्यादिवचःशतं मृदुरुचिनिर्दिष्टनामा कवि नेतुं यावदमोघतामभिमतं स्वोपक्रमायोद्यतः । तत्रत्यं जिनमन्दिरं कविमनोहग्गोचरं व्याहरत्तावच्चेति सहायतां गुरुबचो द्रव्यादिलब्धाविव ।। ८१ ।। उच्चैरुच्चतरस्थलादापदृढप्रावैश्चिता भित्तयः पक्षेस्तम्भसमृद्धकोष्टघादिताः शालाश्चतस्रः शुभाः। मध्ये स्याद्वरवेदिकोत्तमतनुः कूटोस्ति मन्येत्वहं वैराटस्य शिरःकिरीटघटितं चैतज्जिनानां गृहम् ।। ८२ ।। अनुपमशरसंख्यापूर्णवर्णावलीभि लिखितमनुजनागामर्त्य सर्वस्वसारम् । ध्वजचमरमृगेन्द्रस्यासनातोद्यछत्रैः ___ समवसरणशोभोद्भासि सद्भेदमत्र ॥ ८३ ॥ चित्रालीर्यदलीलिखत्रिजगतामासृष्टिसर्गक्रमा दादेशादुपदेशतश्च नियतं श्रीक्षेमकीर्तेः गुरोः । गुर्वाज्ञानतिवृत्तितश्च विदुषस्ताल्हूपदेशादाप वैराटस्य जिनालये लिपिकरस्तत्सार्थनामाप्यभूत् ।। ८४ ॥ यत्र श्रावकसङ्घमण्डितमही स्वर्गाचले वाद्युतत स्याद्वादोद्यदमन्दवादविदितास्तिष्ठन्तियत्राहताः । निर्ग्रन्थाः शमिनस्तपोग्निभरतो, निर्दिग्धकम्र्मेन्धनाः श्रीवैराटपुरास्थितं जिनगृहं तत्केन संवर्ण्यते ॥ ८५ ॥ पात्रेभ्यो गृहधर्मकर्मनिरतैर्नित्यं सदाचारिभिः दीयन्तेऽभयभेषजानुभवनान्नादानि दानानि च । पूज्यन्ते जिनबिम्बशास्त्रमुनयो यत्रानिशं श्रेयसे श्रीवैराटजिनालयः प्रतिदिन जीयाद्वरेण्यो वरः ॥ ८६ ।।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy