SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कथामुखवर्णनम् । पार्थाख्यायितविक्रमः स्वशरणायायातधात्रीभुजां . वैराटीयमहत्तरेष्वपि महत्सूत्रायितं यद्वचः ।। ७४ ।। उक्तभ्रातृयुगावरोपि जननोपक्षीणहेतोः क्रमात् सर्वैरेव गुणैर्वरस्तदुभयप्रोक्तोक्तिसंसूचितः । अन्यैः कैश्चिदपि प्रकर्षकरणैर्लब्धावकाशो गुणैर्नाम्ना 'फामन' साम्यधर्मनिरतो जीयादुपज्ञाप्रणीः ।। ७५ ॥ येनानन्तरिताभिधानविधिना सङ्घाधिनाथेन यच्छारामयशोमयं निजवपुः कर्तुं चिरादीप्सितम् । तन्मन्ये फलवत्तरं कृतमिदं लब्ध्वाधुना सत्कविम् वैराटे स्वयमागतं शुभवशाभूमीशमल्लाह्वयम् ।। ७६ ॥ प्रागज्ञायि महात्मनात्ममतिना येनैतदध्यक्षतः धर्मादेव सुखञ्चितो यदसुखं प्रायोस्त्यधर्मादिति । तत्ताल्हूविदुषः कृपापरतया देशोपदेशद्वयाच्छीभट्टारकहेमचन्द्रविदिताम्नाये कृतानात्मनः ॥ ७७ ।। सामान्यादवगम्य धर्मफलितुं ज्ञातुं विशेषादपि भक्त्या यस्तमपीपृच्छवृषरुचिर्नाम्नाधुना फामनः। . धर्मत्वं किमथास्य हेतुरथ किं साक्षात्फलं तत्त्वतः । स्वामित्वं किमथेति सूरिरवदत् सर्वं प्रणुन्नः कविः ॥ ७८ ॥ धर्मः प्राणिदया तदर्थमथ यत् सत्यव्रतादि स्फुटं . यद्वाहत्प्रतिबिम्बपूजनमतः सत्पात्रदानादि यत् । तद्धेतुर्बहिराप्तवागथ फलं स्वर्गापवर्गश्रियो भव्यस्तत्पदभागुपासकमणे धर्मं कुरुष्वादरात् ॥ ७९ ॥ सत्यं धर्मरसायनो यदि तदा मां शिक्षयोपक्रमात १ 'ख' पुस्तके “ जनतो " इतिपाठः । २ ' क ' पुस्तके " सत्कविः" . इतिपाठः । 3 ' क ' पुस्तके " मल्लाढ्वयः" इतिपाठः किन्तु न साधुः प्रतिभाति । ४" क " पुस्तके “ सुखाञ्चितो" इतिपाठः अयमपि न साधुः। ५ "क" "ख" पुस्तकयोः " आम्नायै " इतिपाठः । ६ उद्यमात् ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy