________________
लाटीसंहितायां
तत्पट्टे परमाख्यया मुनियश:कीर्तिश्च भट्टारको नैपँथ्यपदमाहतं श्रुतवलादादाय निःशेषतः । सर्पिर्दुग्धधीक्षुतैलमखिलं पञ्चापि यावदसान् त्यक्त्वा जन्ममथं तदुग्रमकरोत् कर्मक्षयार्थं तपः ॥ ६८ ॥ तत्पढेऽस्त्यधुना प्रतापनिलयः श्रीक्षेमकीर्तिमुनिः हेयादेयविचारचारुचतुरो भट्टारकोष्णांशुमान् । यस्यप्रोषधपारणादिसमये पादोदविन्दूत्करैर्जातान्येव शिरांसि धौतकलुषाण्याशाम्बराणां नृणाम् ।। ६९ ॥
तेषां तदानायपरंपराया - मासीत्पुरो डौकनिनाम धेयः । .. तद्वासिनः केचिदुपासकाः स्युः
सुरेन्द्रसामग्र्युपमीयमानः ॥ ७० ॥ उग्रायोतकवंशशंशितपदप्रोद्भूतजन्माश्रमः श्रीमन्मङ्गलगोत्रलाञ्छनतया दक्षैः सुलक्ष्यो भुवि । प्रासीच्छ्रीवनिजांपतिवृषमतिर्भारू स्ववंशे रविः साधुः साधुरितीह लोकविदितो धर्मैकतानो धनी ॥ ७१ ॥ तस्यासन्निह सूनवः क्रमभुवो वेदैरिवोत्प्रेक्षिताःदूदाद्यः ठकुरोथ नाम जगसी तुर्यस्तिलोकाह्वयः । शाखाकल्पतरोरिवात्मजनतावर्गस्य संपोषकाः चत्वारोऽपि निजान्वयोज्ज्वलयशोधाम्नः सुपक्षा इव ॥ ७२ ॥ तत्राद्यस्य सुतो वरो वरगुणो न्योताहसंघाधिपो येनैतजिनमन्दिरं स्फुटमिह प्रोत्तुङ्गमत्यद्भुतम् ।। वैराटे नगरे निधाय विधिवत् पूजाश्च वळूयः कृतमत्रामुत्र सुखप्रदः स्वयशसः स्तम्भः समारोपितः ॥ ७३ ।। श्रीसङ्घाधिपतिः प्रतापतपनो भोल्हा द्वितीयोङ्गजो दुर्दान्तारिकुलाचलाधरशिरः पाताय वनायितः ।