SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कथामुखवर्णनम् । तत्पुत्रोऽजनि सार्वभौमसदृशः प्रोद्यत्प्रतापानलज्वालाजालमतल्लिकाभिरभितः प्रज्वालितारिव्रजः । श्रीमत्साहिशिरोमणिस्त्वकबरो निःशेषशेषाधिपैः नानारत्नकिरीटकोटिघटितः सृग्भिः श्रितांहिद्वयः ॥ ६१ ।। श्रीमड्डिीरपिण्डोपमितमितनभः पाण्डुराखण्डकीया कृष्टं ब्रह्माण्डकाण्डं निजभुजयशसा मण्डपाडम्बरोऽस्मिम् । येनासौ पातिसाहिः प्रतपदकबरप्रख्यविख्यातकीर्तिजर्जीयाड्रोक्ताथ नाथः प्रभुरिति नगरस्यास्य वैराटनानः ॥ ६२ ।। जैनो धर्मोनवद्यो जगति विजयतेऽद्यापि सन्तानवर्ती .. साक्षादैगम्बरास्ते यतय इह यथा जातरूपाङ्कलक्षाः । तस्मै तेभ्यो नमोस्तु त्रिसमयनियतं प्रोल्लसद्यत्प्रसादादर्वागावर्द्धमानं प्रतिघविरहितो वर्तते मोक्षमार्गः ॥ ६३ ॥ श्रीमति काष्ठासंघे माथुरगच्छेऽथ पुष्करे च गणे । लोहाचार्यप्रभृतौ समन्वये वर्तमाने च ।। ६४ ॥ आसीत् सूरिकुमारसेनविदितः पट्टस्थभट्टारकः स्याद्वादैरनवद्यवादनखरैर्वादीभकुम्भेभमित् । येनेदं युगयोगिभिः परिभृतं सम्यग्दृगादित्रयी नानारत्नचितं वृषप्रवहणं निन्येऽद्य पारंपरम् ।। ६५ ॥ तत्पट्टेऽजनि हेमचन्द्रगणभृद्भहारकोर्वीपतिः काष्ठासङ्घनभोगणे दिनमणिमिथ्यान्धकारारिजित् । यन्नामस्मृतिमात्रतोन्यगणिनो विच्छायतामागताः खद्योता इव वाथवाप्युडुगणा भान्तीव भास्वत्पुरः ।। ६६ ।। तत्पट्टेऽभवदर्हतामवयवः श्रीपद्मनन्दी गणी त्रैवेद्यो जिन धर्मकर्मठमनाः प्रायः सतामग्रणीः ।। भव्यात्मप्रतिबोधनोद्भुटमतिर्भट्टारको वाक्पटुयस्याद्यापि यशः शशाङ्कविशदं जागर्ति भूमण्डले ॥ ६७ ॥ . १ सिंहः । २ तीर्थरुप्रतिरूपः ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy