SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां क्षतं नखादैर्वरयोषिदङ्गे ___ सौध्यावलीसंहनने न यंत्र ॥ ५४॥ रागोऽधरे यत्र नितम्बिनीनां __नान्यस्वदाराधनवञ्चनेषु । नेत्रद्वयो रञ्जनमङ्गमामां ___ पापाजनं नैव जनेषु किञ्चित् ॥ ५५ ॥ पयोजनाले परमस्ति कण्टको __ न कण्टकः कोऽपि मिथः प्रजायाम् । नूनं सरोगो न जनोऽत्र कश्चित् - परं सरोगो यदि राजहंसः ॥५६॥ दरिद्रता दातृजने न यत्र __परं प्रतिग्राहिणि सास्ति पात्रे । नान्तस्तदाश्चर्यपरंपराणा मापूर्यतां चेस्कविधर्मशक्तिः ॥ ५७ ॥ इत्याद्यनेकैमहिमोपमानै वैराटनाम्ना नगरं विलोक्य । स्तोतुं मनागात्मतया प्रवृत्तः सानंदमास्ते कविराजमल्लः ॥ ५८ ॥ आसीदुग्रसमग्रवंशविदिता या स्वधुनीवामला नानाभूपतिरत्नभूरिव परा जातिश्च गत्ताभिधा । तस्यां बाबरपातिसाहिरभवन्निर्जित्यशत्रून् बलादिल्लीमण्डलमण्डितात्मयशसा पूर्णप्रतापानलः ।। ५९ ॥ तत्पुत्रः समजीजनन्निजकुले व्योम्नीव चण्डांशुमान दोर्दण्डैरिव खंडनोद्भटमना नाम्ना हुमाहुं नृपः । दुर्वारो विलसत्प्रतापमहिमा चैकांतपात्राङ्कितो विख्यातो भुवि यः समुद्रपरिखापर्यंतभूमीश्वरः ॥ ६० ॥ १ सरसि गच्छतीति सरोगः ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy