________________
कथामुखवर्णनम् ।
यदीयहाग्रनिबद्धपद्धती
दुकूलरत्नाभरणाद्यलंकृताः । वधूरुपेत्येन्द्रधनुःशताकृति
मगादकालेऽपि विराटपत्तनम् ।। ३६ ॥ विराटवीथीषु नवोढयोषितां
गमागमाभ्यासवशानुसारिभिः । तदाननामोदमदालिनिःस्वनै
रयं मधुः कोऽप्यपरः सदातनः ॥ ३७॥ घनाघनाश्लेषजगज्जनौधै
वैराटहट्टाध्वसु पर्यटद्भिः । गतेः प्रचारोपि च दुर्गमोऽभू__ द्वारांनिधेः पार इवोम्मिजालैः ॥ ३८ ॥ अनेकदेशीयजनैरनेकै __श्चितः सरिद्भिः सरितांपतिर्यथा । तदागमिष्यन्निखिलोपमेयतां
यदा स सिन्धुर्मधुरोऽभविष्यत् ॥ ३९ ।। वेदाः प्रमाणं हि पठद्भिरुच्चै _ विरेनूनरिह सम्भृतोऽसौ । शुक्लाम्बरांगचे चतुर्मिरास्यै
वैराटनाम्नावततार धाता ॥ ४०॥ उर्वी यदन्ते विपुला स्वसीनः
सस्यारुहाः सप्रसवेव योषित् । धान्यानि सूते विविधान्यजस्रं
रत्नानि यद्वा सुसुतोपमानि ॥ ४१ ॥ सार्द्राणि यत्रोपवनानि निस्यं
नम्राणि भूयो मरुतेरितानि । १ शब्दैः । २ मार्गेषु । ३ उर्वी इति पृथ्वी । यथा योषित् सप्रसवा तथेयं उर्वी सस्यप्रसवा ।