SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां त्रयीं नमस्यां जिनलिङ्गधारिणां ____सतां मुनीनामुभयोपयोगिनाम् । पर्दत्रयं धारयतां विशेषसात् पदं मुनेरद्विनयादिहार्थतः ॥ ४ ॥ जयन्ति जैनाः कवयश्च तद्गिरः प्रवर्तिता यैर्वृषमार्गदेशना । विनिर्जितं जाड्यमिहासुधारिणां तमस्तमोरेरिव रश्मिभिर्महत् ।। ५ ।। इतीव सन्मङ्गलसत्कियां दध नधीयमानोऽन्वयसात्परंपराम्।. उपज्ञलाटीमिति संहितां कवि श्चिकीर्षति श्रावकसद्ब्रतस्थितिम् ॥ ६॥ द्वीपान्तरीयनिकरैः परितः परीतः स्वर्णाचलच्छलतातपवारणोऽसौ । गङ्गौघचामरविराजित एष जम्बू द्वीपोधिराज इव राजति मध्यवर्ती ॥ ७ ॥ परीत्य जम्बूतरुमालवालव द्रीयसोच्चैः परिखाधिनावृते अकृत्रिमं क्षेत्रमिहास्ति भारतं षडंशमात्रीकृतकालभारतम् ॥ ८ ॥ तत्रार्द्धचन्द्राकृतिकायमाने ___ खण्डानि षट् सन्ति सरिन्नगेभ्यः । खण्डोत्रविख्याततमार्यनामा ... निःश्रेयसेहास्ति वृषार्जनामा ॥ ९॥ १दर्शनज्ञानचारित्रम् । अथवा आचार्योपाध्यायसाधुरूपं पदत्रयम् । २ रद्वितयादित्यपि पाठः । ३ सूर्यस्य रश्मिभिः । ४ ख पुस्तके " एव " इति पाठः । ५ वृषार्जनायाः इति साधुः प्रतिभाति ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy