________________
श्रीवीतरागाय नमः। श्रीस्याद्वादानवद्यपद्यगद्यविद्याविशारदविद्वन्मणि
राजमल्लविरचिता
लाटीसंहिता ।
प्रथमः सर्गः।
ज्ञानानन्दात्मानं नमामि तीर्थंकरं महावीरम् ।। यञ्चिति विश्वमशेष व्यदीपि नक्षत्रमेकमिव नभसि ॥ १ ॥ नमामि शेषानपि तीर्थनायका
ननन्तबोधादिचतुष्टयात्मनः । स्मृतं यदीयं किल नाम भेषजं
भवेद्धि विघ्नौघगदोपशान्तये ॥२॥ प्रदुष्टकर्माष्टकविप्रमुक्तकां
स्तदत्यये चाष्टगुणान्वितानिह । समाश्रये सिद्धगणानपि स्फुटं
सिद्धेः पथस्तत्पदमिच्छतां नृणाम् ॥ ३॥ १ यस्य महावीरस्य । २ ज्ञाने । ३ नाशे ।