________________
- लाटीसंहितायां
दैवाद्धोरोपसर्गेऽपि रोगेऽसाध्यतरेऽपि च ॥ २३४ ॥ क्रमेणाराधनाशास्त्रप्रोक्तेन विधिना व्रती । वपुषश्च कषायाणां जयं कृत्वा तनुं त्यजेत् ॥ २३५ ॥ धन्यास्ते वीरकर्माणो ज्ञानिनस्ते व्रतावहाः । येषां सल्लेखनामृत्युः निष्प्रत्यूहतया भवेत् ॥ २३६ ।। दोषाः सूत्रोदिताः पञ्च सन्त्यतीचारसंज्ञकाः । अन्त्यसल्लेखनायास्ते संत्याज्याः पारलौकिकैः ॥ २३७ ॥ ___ तत्सूत्रं यथा-जवितमरणाशंसा मित्रानुरागसुखानुबन्धनिदानानि । आशंसा जीविते मोहाद् यथेच्छेदपि जीवितम् । यदि जीव्ये वरं तावदोषोऽयं यत्समस्यते ॥ २३८ । आशंसा मरणे चापि यथेच्छेन्मरणं द्रुतम् । वरं मे मरणं तूर्णं मुक्तः स्यां दुःखसंकटात् ॥ २३९ ॥ दोषो मित्रानुरागाख्यो यन्नेच्छेन्मरणं कचित् । पुरस्तान्मित्रतो मृत्युवरं पश्चान्न मे वरम् ॥ २४० ॥ दोषः सुखानुबन्धाख्यो यथात्रास्मीह दुःखवान् । मृत्वापि व्रतमाहात्म्याद् भविष्येऽहं सुखी कचित् ॥ २४१ ॥ दोषो निदानबन्धाख्यो यथेच्छेन्मरणं कुधीः । भवेयं व्रतमाहात्म्यादस्य घाताय तत्परः ॥ २४२ ॥ यदि वा मरणं चेच्छेन्मोहोद्रेकात्स मूढधीः । भवेयं चोपकाराय मित्रस्यास्य व्रतादितः ।। २४३ ॥ यदिवा मरणं चेच्छेदज्ञानाद्वा सुखाशया। भूयान्मे व्रतमाहात्म्यात्स्वर्गश्रीरद्विवादिनी ॥ २४४ ॥ एतैर्दोषैर्निनिर्मुक्तमन्त्यसल्लेखनाव्रतम् । स्वर्गापवर्गसौख्यानां सुधापानाय जायते ॥ २४५ ॥