SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अणुव्रतचतुष्कशीलससकवर्णनम् । निदर्शनं व्रतनिकाययुतं कुपात्रं युग्मोज्झितं नरमपात्रमिदं हि विद्धि । एतेष्वन्यतमं प्राप्य दानं देयं यथाविधि । प्रासुकं शुद्धमाहारं विनयेन समन्वितम् ॥ २२३ ॥ पात्रालाभे यथाचित्ते पश्चात्तापपरो भवेत् । अधमे विफलं जन्म भूयोभूयश्च चिन्तयेत् ॥ २२४ ॥ कुपात्रायाप्यपात्राय दानं देयं यथायथम् । केवलं तत्कृपादानं देयं पात्रधिया न हि ।। २२५ ॥ -- अस्ति सूत्रोदितं शुद्धं तत्रातीचारपश्चकम् । . अतिथिसंविभागाख्यव्रतरक्षार्थ परित्यजेत् ।। २२६ ॥ ___ तत्सूत्रं यथा-सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः । सचित्ते पद्मपत्रादौ निक्षेपोऽन्नादिवस्तुनः । दोषः सचित्तनिक्षेपो भवेदन्वर्थसंज्ञकः ॥ २२७ ॥ अपिधानमावरणं सचित्तेन कृतं यदि । स्यात्सचित्तापिधानाख्यं दूषणं व्रतधारिणः ॥ २२८॥ आस्माकीनं सुसिद्धान्नं त्वं प्रयच्छेति योजनम् । . दोषः परोपदेशस्य करणाख्यो व्रतात्मनः ॥ २२९ ॥ प्रयच्छन्नच्छमन्नादि गर्वमुद्बहते यदि । दूषणं लभते सोपि महामात्सर्यसंज्ञकम् ॥ २३० ॥ ईषन्न्यूनाच्च मध्यान्हादानकालादधोथवा। ऊर्द्धं तद्भावनाहेतोर्दोषः कालव्यतिक्रमः ॥ २३१ ॥ एतैर्दोषैर्विनिर्मुक्तं पात्रेभ्यो दानमुत्तमम् । अतिथिसंविभागाख्यव्रतं तस्य सुखाप्तये ।। २३२ ।। यथात्मज्ञानमाख्यातं संख्याव्रतचतुष्टयम् । अस्ति सल्लेखना कार्या तद्वतो मारणान्तकी ।। २३३ ।। सोस्ति सल्लेखनाकालो जीर्णे वयसि चाथवा ।।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy