________________
१२१
, सामायिकादि प्रतिमावर्णनम् । उक्ता सल्लेखनोपेता द्वादशक्तभावनाः । एताभिव्रतप्रतिमा पूर्णतां याति सुस्थिता ॥ २४६ ॥
इति श्रीस्याद्वादानवद्यगद्यपद्यविद्याविशारद विद्वन्मणिराजमल्ल विरचितायां श्रावकाचारापरनाम लाटीसंहितायां साधुश्री
दूदात्मज फामन मनःसरोजारविन्दविकाशनकमार्तण्डमण्डलायमानायां मृषात्यागादिलक्षणाणुव्रतचतुष्क गुणव्रतत्रिक शिक्षाव्रत चतुष्टय प्रतिमा प्रतिपादकः षष्ठः सर्गः।
अथ सप्तमः सर्गः। द्वादशव्रतरूपं यद् व्रतं सद्गृहमेधिनाम् । साधुदूदाङ्गजोद्धारभूयाद्वो नामफामनः ।। १ ॥
इत्याशीर्वादः। द्वादशव्रतशुद्धस्य विशुद्धेश्वातिशायिनः ।.. युक्तमुत्कृष्टाचरणमिच्छतस्तत्पदं मुदे ॥ १ ॥ स्यात्सामायिकप्रतिमा नाम्ना चाप्यस्तिसंख्यया । तृतीया व्रतरूपा स्यात्कर्तव्या वेश्मशालिभिः ॥ २॥ व्रतानां द्वादशं चात्र प्रतिपाल्यं यथोदितम् । विशेषादपि कर्तव्यं सम्यक् सामायिक व्रतम् ॥ ३ ॥ ननु व्रतप्रतिमायामेतत्सामायिकव्रतम् । तदेवात्र तृतीयायां प्रतिमायां तु किं पुनः ॥४॥ सत्यं किन्तु विशेषोस्ति प्रसिद्धः परमागमे । सातिचारं तु तत्र स्यादत्रातीचारविवर्जितम् ।। ५॥ किञ्च तत्र त्रिकालस्य नियमो नास्ति देहिनाम् । अत्र त्रिकालनियमो मुनेमूलगुणादिवत् ॥ ६॥