________________
अथ.
आचार्यश्रीमदुमास्वामिविरचितं तत्वार्थ सूत्रं
( तत्त्वार्थाधिगममोक्षशास्त्रम् )
(५)
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ ॥ तन्निसर्गादधिगमाद्वा ॥ ३ ॥ जीवाजीवास्रवबन्धसंवरनिर्ज्जरामोक्षास्तत्त्वम् ॥४॥ नामस्थापनाद्रव्यभावतस्तन्न्यासः ||५|| प्रमाणनयैरधिगमः ॥ ६ ॥ निर्देशस्वामित्वसाधनाऽधिकरणस्थितिविधानतः ||७|| सत्संख्याक्षेत्रस्पर्शनकालान्तरभावात्पबहुत्वैश्च ॥८॥ मतिश्रुतावधिमनः पर्यय केवलानिज्ञानम् ॥९॥ तत्प्रमाणे ॥१०॥ आद्ये परोक्षम् ॥ ११ ॥ प्रत्यक्षमन्यत् ॥ १२ ॥ मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥ ॥ १३ ॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४ ॥ अवग्रहेहावायधारणाः ॥ १५॥ बहुबहुविधक्षिप्राऽनिःसृताऽनुक्तध्रुवाणां सेतराणाम्॥ १६ ॥ अर्थस्य ॥ १७ ॥ व्यञ्जनस्यावग्रहः ॥ १८ ॥ न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥ श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् ॥ २० ॥ भवप्रत्ययो ऽवधिर्देवनारकाणाम् ॥२१॥ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥ २२ ॥ ऋजुविपुलमती मनः पर्य्ययः ॥ २३ ॥ विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥ २४ ॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनः पर्य्यययोः ॥ २५ ॥ मतिश्रुतयोर्निबन्धो द्रव्येष्वसपर्यायेषु ॥ २६ ॥ रूपष्ववधेः ॥ २७ ॥ तदनन्तभागे मनःपर्ययस्य ॥ २८ ॥ सर्वद्रव्य पर्यायेषु केवलस्य ॥ २९ ॥ एकादीनि भा