________________
आत्मानुशासनम्।
स्वाधीन्याद्दुःखमप्यासीत्सुखं यदि तपस्विनाम्। स्वाधीनसुखसम्पन्ना न सिद्धाः सुखिनः कथम् ॥ २६७ ॥ इति कतिपयवाचां गोचरीकृत्य कृत्यं चरितमुचितमुचैश्चेतसां चित्तरम्यम् । इदमविकलमन्तः सन्ततं चिन्तयन्तः सपदि विपदपेतामाश्रयन्तु श्रियं ते ॥ २६८ ॥ जिनसेनाचार्यपादस्मरणाधीनचेतसाम् । गुणभद्रभदन्तानां कृतिरात्मानुशासनम् ॥ २६९ ।। ऋषभो नाभिसूनुर्यो भूयात्स भविकाय वः। . यज्ज्ञानसरसि विश्वं सरोजमिव भासते ॥ २७ ॥
इति श्रीगुणभदभदन्तकृतमात्मानुशासनम् ।