________________
प्रथम गुच्छक । दूरारूढतपोऽनुभावजनितज्योतिः समुत्सर्पणरन्तस्तत्त्वमदः कथं कथमपि प्राप्य प्रसादं गताः। विश्रब्धं हरिणी विलोलनयनरापीयमाना वने धन्यास्ते गमयन्त्यचिन्त्यचरित(राश्चिरं वासरान्॥२६०॥ येषां बुद्धिरलक्ष्यमाणभिदयोराशात्मनोरन्तरं गत्वोचैरविधाय भेदमनयोरारान्न विश्राम्यति । यैरन्तर्विनिवेशितः शमधनैर्बाढं बहिर्व्याप्तयः तेषां नोऽत्र पवित्रयन्तु परमाः पादोत्थिताः पांशवः ॥२६॥ यत्प्राग्जन्मनि संचितं तनुभृता कर्माशुभं वा शुभं तवं तदुदीरणादनुभवन् दुःखं सुखं वागतम् । कुर्य्याद्यः शुभमेव सोऽप्यभिमतो यस्तूभयोच्छित्तये सर्वारम्भपरिग्रहपरित्यागी स वन्द्यः सताम् ॥ २६२ ॥ सुखं दुःखं वास्यादिह विहितकर्मोदयवशात् कुतः प्रीतिस्तापः कुत इति विकल्पाद्यदि भवेत् । उदासीनस्तस्य प्रगलितपुराणं न हि नवं
समास्कन्दत्येष स्फुरति सुविदग्धोमणिरिव ॥ २६३ ॥ : सकलविमलबोधो देहगेहे विनिर्यन् ज्वलन इव स काष्ठं निष्ठुरं भस्मयित्वा । पुनरपि तदभावे प्रज्वलत्युज्वलः सन् भवति हि यतिवृत्तं सर्वथाश्चर्यभूमिः ॥ २६४॥ गुणी गुणमयस्तस्य नाशस्तन्नाशयिष्यते। अतएव हि निर्वाणं शून्यमन्यैर्विकल्पितम् ॥ २६५ ॥ अजातो नश्वरो मूर्तः कर्ता भोक्ता सुखी बुधः। देहमानो मलैर्मुक्तो गत्वो मचलः प्रभुः ॥ २६६ ॥