________________
तत्त्वार्थाधिगममोक्षशास्त्रम् ।
ज्यानि युगपदेकस्मिन्नाचतुर्व्यः॥३०॥मतिश्रुतावधयो विपर्ययश्च ॥३१॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥ ३२ ॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढवंभूता नयाः ॥ ३३ ॥
इति तत्त्वार्थाधिगभे मोक्ष शास्त्रे प्रथमोऽध्यायः ॥ १ ॥ - औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्वमौदयि. कपारिणामिकौ च ॥१॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥सम्यक्त्वचारित्रे ॥३॥ ज्ञानदर्शनदानलाभभोगोपभोग वीर्याणि च ॥ ४॥ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्च भेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥५॥ गतिकषायलिङ्गमिथ्यादर्शनाऽज्ञानाऽसंयताऽसिद्धलेश्याश्चतुस्त्येकैकैकैकषड्भेदाः॥६॥ जीवभव्याऽभव्यत्वानि च ॥७॥ उपयोगो लक्षणम् ॥ ८॥ सद्वि. विधोऽष्टचतुर्भेदः ॥९॥ संसारिणो मुक्ताश्च ॥१०॥ समनस्कामनस्काः ॥११॥ संसारिणस्त्रसस्थावराः॥१२॥ पृथिव्यप्तेजोवायु वनस्पतयः स्थावराः॥ १३॥ द्वीन्द्रियादयस्त्रसाः ॥ १४ ॥ पञ्चे. न्द्रियाणि ॥ १५ ॥ द्विविधानि॥ १६ ॥ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ।। लब्ध्युपयोगी भावेन्द्रियम् ॥ १८ ॥ स्पर्शनरसन. घ्राणचक्षुःश्रोत्राणि ॥१९॥ स्पर्शरसगन्धवर्णशब्दास्तदर्थाः॥२०॥ श्रुतमनिन्द्रियस्य ॥ २१ ॥ वनस्पत्यन्तानामेकम् ॥ २३ ॥ कृमि पिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥२३॥ संशिनः समनस्काः ॥२४॥ विग्रहगतौ कर्मयोगः ॥ २५॥ अनुश्रेणि गतिः।। ॥ २६ ॥ अविग्रहा जीवस्य ॥२७॥ विग्रहवती च संसारिणः प्रा. क्चतुर्व्यः॥२८।एकसमयाऽविग्रहा ॥२९ ॥ एकं द्वौत्रीन्वाऽना हारकः ॥३०॥ सम्मर्छनगर्भोपपादा जन्म ॥ ३१॥ सचित्तशी. तसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥३२॥ जरायुजाण्डज.