SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ८५ आत्मानुशासनम् । रतेररतिमायातः पुनारतिमुपागतः । तृतीयं पदमप्राप्य बालिशो बत सीदसि ॥ २३२ ॥ तावदुःखाग्नितप्तात्माऽयः पिण्ड इव सीदसि । निर्वासिनिर्वृताम्भोधौ यावत्वं न निमज्जसि ॥ २३३ ॥ मोक्षं सुसम्यक्त्वं सत्यंकारस्वसात्कृतं । ज्ञानचारित्रसाकल्य मूलेन स्वकरे कुरु ॥ २३४ ॥ अशेषमद्वैतमभोग्यभोग्यं निवृत्तिवृत्त्योः परमार्थकोट्याम् । अभोग्यभोग्यात्मविकल्पबुद्ध्या निवृत्तिमभ्यस्यतु मोक्षकाङ्क्षी ॥ निवृत्तिं भावयेद्यावन्निवर्त्य तदभावतः । न वृत्तिर्न निवृत्तिश्च तदेवपदमव्ययम् ॥ २३६ ॥ रागद्वेषौ प्रवृत्तिः स्यान्निवृत्तिस्तन्निषेधनम् । तौ च बाह्यार्थसम्बद्धौ तस्मात्तांश्च परित्यजेत् ॥ २३७ ॥ भावयामि भवाऽऽवर्त्ते भावनाः प्रागभाविताः । भावये भावितानेति भवाभावाय भावनाः ॥ २३८ ॥ शुभाशुभे पुण्यपापे सुखदुःखे च षट्त्रयं । हितमाद्यमनुष्ठेयं शेषत्रयमथाहितम् ॥ २३९ ॥ तत्राप्याद्यं परित्याज्यं शेषौ न स्तः स्वतः स्वयम् । शुभं च शुद्ध त्यक्त्वान्ते प्राप्नोति परमं पदम् ॥ २४० ॥ अस्त्यात्मास्तमितादिबन्धन गतस्तद्बन्धनान्यास्रवैस्ते क्रोधादिकृताः प्रमादजनिताः क्रोदादयस्तेऽव्रतात् । मिथ्यात्वोपचितात् स एव समलः कालादिलब्धौ क्वचित् सम्यक्त्वव्रतदक्षता कलुषतायोगः क्रमान्मुच्यते ॥ २४९ ॥ ममेदमहमस्येति प्रीतिरीतिरिवोत्थिता । क्षेत्रे क्षेत्रीयते यावत्तावत्का सा तपःफले ॥ २४२ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy