SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक। विहितहितमिताशी क्लेशजालं समूलं दहति निहतनिद्रो निश्चिताध्यात्मसारः ॥ २२५ ॥ समधिगतसमस्ताः सर्वसावद्यदूराः स्वहितनिहितचित्ताः शान्तसर्वप्रचाराः। स्वपरसफलजल्पाः सर्वसंकल्पमुक्ताः कथमिह न विमुक्त जनं ते विमुक्ताः ॥ २२६ ॥ दासत्वं विषयप्रभोर्गतवतामात्मापि येषां परस्तेषां भो गुणदोषशून्यमनसां किं तत्पुनर्नश्यति । भेत्तव्यं भवतैव यस्य भुवनप्रद्योति रत्नत्रयं भ्राम्यम्तीन्द्रियतस्कराश्च परितस्त्वं तन्मुहुर्जागृहि ॥२२७॥ रम्येषु वस्तुवनितादिषु बीतमोहो मुहोद्वथा किमिति संयमसाधनेषु । धीमान् किमामयमयात्परिहत्य भुक्ति पीत्त्वौषधं व्रजति जातुचिदप्यजीर्णम् ॥ २२८ ॥ तपः श्रुतमिति द्वर्य बहिरुदीर्य रूढं यथा कृषीफलमिवालये समुपनीयते स्वात्मनि । कृषीवल इघोत्थितं करणचोरव्याधादिभिस्तदा हि मनुते यतिः स्वकृतकृत्यतां धीरधीः ।। २२९ ॥ दृष्टार्थस्य न मे किमप्ययमिति ज्ञानावलेपादमुं नोपेक्षस्व जगत्त्रथैकडमरं निःशेषयाशाद्विषम् । पश्याम्भोनिधिमप्यगाधसलिलं चावाद्यते वाडवः क्रोडीभूतविपक्षकस्य जगति प्रायेण शान्तिः कुतः ॥२३०॥ नेहानुषद्धहृदया ज्ञानचरित्रान्वितोऽपि न श्लाघ्यः। दीप इवापादयिता कजळमलिनस्य कार्य्यस्य ॥ २३१ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy