SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आत्मानुशासनम् । वसति भुवि समस्तं सापि संधारितान्यरुदरमुपनिविष्टा सा च ते चापरस्य । तदपि किल परेषां शानकोणे निलीनं वहति कथमिहान्यो गर्षमात्माधिकेषु ॥ २१९ ॥ यशोमारीचीयं कनकमृगमायामलिनितं हतोऽश्वत्थामोक्त्या प्रणयिलघुरासीद्यमसुतः। सकृष्णः कृष्णोऽभूत्कपटबटुवेषेणनितरामपिच्छामाल्यं तद्विषमिव हि दुग्धस्य महतः ॥ २२० ॥ भेयं मायामहागान्मिथ्याघनतमोमयात् । यस्मिन् लीना न लक्ष्यन्ते क्रोधादिविषमाहयः ॥ २२१:॥ प्रच्छन्नकर्म मय कोऽपि न वेत्ति धीमान् .... ध्वंसं गुणस्य महतोऽपि हि मेति मंस्थाः। कामं गिलन् धवलदीधितिधौतदाहो गूढोऽप्यबोधि न विधुः सविधुन्तुदः कैः ॥ २२२॥ वनचरभयाद्धावन देवालताकुलबालधिः किल जडतया लोलो बालबजे विचलं स्थितः। बत स चमरस्तेन प्राणैरपि प्रवियोजितः परिणततृषां प्रायेणैवंविधा हि विपत्तयः ॥ २२३ ॥ . विषयविरतिः संगत्यागः कषायब्रिनिग्रहः शमयमदमास्तत्त्वाभ्यासस्तपश्चरणोद्यमः। नियमितमनोवृत्तिभक्तिर्जिनेषु दयालुता भवति कृतितः संसाराब्धेस्तटे निकटे सति ॥ २२४ ॥ यमनियमनितान्तः शान्तबाह्यान्तरात्मा परिममितसमाधिः सर्वसत्त्वानुकम्पी।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy