SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक। हृदयसरसि यावनिर्मलेऽप्यत्यगाधे वसति खलु कषायग्राहचक्रं समन्तात् । ... श्रयति गुणगणोऽयं तन्न तावद्विशङ्क समदमयमशेषस्तान् विजेतुं यतस्व ॥ २१३॥ हित्वा हेतुफले किलात्र सुधियस्तां सिद्धिमामुत्रिकी वाग्छन्तः स्वयमेव साधनतया शंसन्ति शान्तं मनः। तेषामाखुबिडालिकेति तदिदं धिग्धिकले प्राभवं येनैतेऽपि फलद्वयप्रलयनादूरं विपर्यासिताः ॥ २१४ ॥ उद्युक्तस्त्वं तपस्यस्यधिकमभिभवंस्त्वामगच्छन्कषायाः प्राभूद्वोधोऽप्यगाधो जलमिव जलधौ किन्तु दुर्लक्ष्यमन्यैः । निव्यूढेऽपि प्रवाहे सलिलमिव मनाग्निनदेशेष्ववश्यं मात्सर्यन्ते स्वतुल्यैर्भवति परवशाद्दुर्जयं तजहीहि ॥२१५|| चित्तस्थमप्यनवबुध्य हरेण जाड्या क्रुद्ध्वा बहिः किमपि दग्धमनङ्गबुद्ध्या। घोरामवाप स हि तेन कृतामवस्थां क्रोधोदयाद्भवति कस्य न कार्यहानिः ॥ २१६ ॥ चक्र विहाय निजदक्षिणबाहुसंस्थं यत्प्राव्रजन्नतु तदैव स तेन मुकः। क्लेशं तमाप किल बाहुबली चिराय मानो मनागपि हर्ति महतीं करोति ॥ २१७ ॥ सत्यं वाचि मतौ श्रुतं हृदि दया शौर्य भुजे विक्रमो लक्ष्मीर्दानमनूनमर्थिनिचये मार्गे गतिनिवृते। येषां प्रागजनीह तेऽपि निरहङ्काराः श्रुतेगोचराश्चित्रं संप्रति लेशतोऽपि न गुणास्तेषां तथाप्युद्धताः ॥२१८॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy