________________
आत्मानुशासनम्।
मूर्त सदा शुचि विचेतनमन्यदत्र किंवा न दूषयति घिग्धिगिदं शरीरम् ।। २०२॥ हा हतोऽसितरां जन्तो येनास्मिस्तव सांप्रतम् ।.. ज्ञानं काया शुचिज्ञानं तत्त्यागः किल साहसम् ॥ २०३॥ अपि रोगादिभिवृद्धैर्न मुनिः खेदमृच्छति । उडुपस्थस्य कः क्षोभः प्रवृद्धऽपि नदीजले ॥ २०४ ॥ जातामयः प्रतिविधाय तनौ वसेद्वा नो चेत्तनुं त्यजतु वा द्वितयी गतिः स्यात् । लग्नाग्निमावसति वहिमपोह्य गेहं निर्हाय वा व्रजति तत्र सुधीः किमास्ते ॥ २०५॥ शिरस्थं भारमुत्ता- स्कन्धे कृत्वा सुयत्नतः । शरीरस्थेन भारेण अज्ञानी मन्यते सुखम् ॥ २०६॥ यावदस्ति प्रतीकारस्तावत्कुर्यात् प्रतिक्रियाम् । तथाप्यनुपशान्तानामनुगः प्रतिक्रिया ॥२०७॥ यदा यदा भवेजन्मी त्यक्त्वा मुक्तो भविष्यति । शरीरमेव तत्त्याज्यं किं शेषैः क्षुद्रकल्पनैः ॥ २०८ ॥ नयत्सर्वाशुचिप्रायं शरीरमपिपूज्यतां ।। सोऽप्यात्मा येन न स्पृश्यो दुश्चरित्रं घिगस्तु तत् । २०९ ॥ रसादिराद्यो भागः स्यात् ज्ञानावृत्यादिरन्वितः। ज्ञानादयस्तृतीयस्तु संसायेवं त्रयात्मकः ॥२१० ॥ भागत्रयमिदं नित्यमात्मानं बन्धवर्तिनम् । भागद्वयात् पृथकर्तुं यो जानाति स तत्त्ववित् ॥ २११ ॥ करोतु न चिरं घोरं तपः क्लेशासहो भवान् । चित्तसाध्यान् कषायारीन जयेद्यत्तदक्षता ॥ २१२ ॥