________________
195
. आत्मानुशासनम् । पीत्वामृतं यदि वमन्ति विसृष्टपुण्या: संप्राप्य संयमनिधि यदि च त्यजन्ति ॥१६॥ इह विनिहितबहारम्भबाह्योरशत्रो. रपचितनिजशक्त परः कोन्य पाया। प्रशनशयनयानस्थामदत्तावधान कुरु तव परिरक्षामान्तरान् हन्तुकामः ॥१६६।। अनेकान्सात्मार्थप्रसवफलभारातिविनते घचः पर्णाकीर्णे विपुलनयशाखांशतयुते । समुत्तुङ्गे सम्यक प्रततमतिमूले प्रतिदिनं श्रुतस्कन्धे धीमान् रमयतु मनोमर्कटममुम् ॥१७॥ तदेव तदतद्रूपं प्राप्नुवन्न विरंस्यति । 'इति विश्वमनाद्यन्तं चिन्तयेद्विश्ववित्सदा ॥१७॥ एकमेकक्षणे सिद्धं ध्रौव्योत्पत्तिव्ययात्मकम् । अबाधितान्येतत्प्रत्ययान्यथानुपपत्तितः ॥१७२॥ न स्थास्नु न क्षणविनाशि न बोधमात्रं नाभावमप्रतिहतप्रतिभासरोधात् । तत्त्वं प्रतिक्षणभवत्तदतरस्वरूप. माद्यन्तहीनमखिलं च तथा यथै कम् ॥१७॥ . ज्ञानस्वभावः स्यादात्मा खभावावाप्तिरच्युतिः । तस्मादच्युतिमाकांक्षन् भावयेज ज्ञानभावनाम् ॥१७४॥ ज्ञानमेव फलं शाने ननु श्लाघ्यमनश्वरम् । अहो मोहस्य माहात्म्यमन्यदप्यत्र मृग्यते ॥१५॥ शास्त्राग्नी मणिवद्भयो विशुद्धो भाति निर्वृतः। अङ्गारवत् खलो दीप्तो मली वा भस्म बा भवेत् ॥१७६॥