________________
श्रात्मामुशासनम् । मनु शुचिषु शुभेषु प्रीतिरेग्वेव साध्वी मदनमधुमदान्धे प्रायशः को विवेकः ॥१३६॥ प्रियामनुभवत्स्वयं भवति कातरं केवलं परेष्वनुभवत्सु तां विषयिषु स्फुटं ह्लादते । मनो ननु नपुंसकं स्थिति न शब्दतश्वार्थतः सुधो कथमनेन सन्नुभयथा पुमान् जीयते ॥१३७॥ राज्यं सौजन्ययुक्तं श्रुतवदुरुपतः पूज्यमत्रापि यस्मात त्यक्त्वा राज्यं तपस्यन्नलघुरतिलघुः स्यात्तपः प्रोह्य राज्यम् राज्यातस्मात्प्रपूज्यं तप इति मनसालोच्य धीमानुदग्रं कुर्यादार्यः समग्रं प्रभवभयहरं सत्तफः पापभीरूः ॥१३॥ पुरा शिरसि धार्यन्ते पुष्पाणि विबुधैरपि । पश्चात् पादोऽपि नास्पाक्षीत् किं न कुर्याद्गुणक्षतिः॥१३६॥ हेचन्द्रमः किमिति लाञ्छनवानभूस्त्वम् तद्वान भवेः किमिति तन्मय एव नामः। किं ज्योत्स्नया मलमलं तव घोषयन्त्या स्वर्भानुवन्ननु तथा सति नासि लक्ष्यः ॥१४०॥ विकाशयन्ति भव्यस्य मनोमुकुलमंशवः । रवेरिवारविन्दस्य कठोराश्व गुरूक्तयः ॥१४॥ दोषान् कांश्चन तान प्रवर्तकतया प्रच्छाद्य गच्छत्ययं साई तैः सहसा म्रियेद्यदि गुरुः पश्चात् करोत्येष किम् । तस्मान्मे न गुरुगुरुगुरुतरान् कृत्वा लघूश्च स्फुटम् ब्रूते यः सततं समीक्ष्य निपुणं सोऽयं खलः सद्गुरुः ॥१५२|| लोकद्वयहितं धक्तुं श्रोतुश्च सुलभाः पुरा । दुर्लभाः कत्तु मद्यत्वे वक्तुं श्रोतुं च दुर्लभाः ॥१४३॥